SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ एकादशमाह्निकम् 605 अपि च प्रथमगृहीतान्यतमरूपवैकल्यलब्धैकहेत्वाभासरूपेऽस्मिन्* कि रूपान्तरनिरूपणेनेत्यास्तामेतत् ॥ [अप्रयोजकहेतोरसिद्धावन्तर्भावः ] .. ननु ! अप्रयोजको नाम षष्ठो हेत्पाभासः समस्तीति न पुनरपि पंचत्वम्-न-तस्यान्यथासिद्ध'त्वेन असिद्ध ए'वान्तर्भावं वक्ष्यामः । अवान्तरभेदविवक्षायां तु हेत्वाभासानामियत्तानिश्चयः न शकपक्रियः, न च सप्रयोजन इति पंचैव हेत्वाभासा इंति सिद्धम् ॥ • . [सव्यभिचारलक्षणम् ] तेषां सव्यभिचारस्तावदुच्यते अनैकान्तिकः सव्यभिचारः ॥ १-२-५॥ व्यभिचारः एकत्र व्यवस्थाsनियमः। तेन सह वर्तत इति सव्यभिचारः -विपक्षादप्रच्युत इत्यर्थः। एकस्मिन् अन्ते भवन ऐकान्तिकः। तद्विपर्यायादनकान्तिक इति स एवार्थः। एवमिह लक्ष्यलक्षणपदयोः यथाकाम मभ्युपगमः, न प्रत्यक्षादिवत् व्यवस्थया || - सव्यभिचारपदे लक्ष्याभिधायिनि लक्षणवचनमनैकान्तिकपदम् , अनैकान्तिकपदे तु लक्ष्यवाचिनि सव्यभिचारपदं-लक्षणप्रतिपादकं प्रसि. द्धय प्रसिद्धि विभागापेक्षया पिककोकिलवत् द्रष्टव्यम्। 'पिकः कोकिलः इत्युक्ते यस्य पिकशब्दार्थः प्रसिद्धः, स ततः कोकिलशब्दार्थमवभोत्स्यते । प्रसिद्धकोकिलशब्दार्थस्तु पिकशब्दार्थमिति ॥ * तावतैव वादिनो निग्रहादिति भावः ॥ __1 ए-ख, द्धा-ख, द्ध-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy