________________
604
न्यायमञ्जरी सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकाला
हेत्वाभासाः ॥ २-२-४॥ अत्र हेत्वाभास*श्रुतिरेव निर्वचनसहिता सामान्यलक्षणं बोधयति'अहेतवः हेतुवदामासन्त इति हेत्वाभासाः' इति। लक्षणैकदेशयोगाच्च हेतुवदामासनं, अहेतोरप्युपपद्यते । सकल लक्षणापायेऽपि पंचमीनिर्देशादिः भ्रमहेतुरित्येके ||
सव्यभिचारादिपदपर्यन्तवतिनी तु सैव श्रुतिः विभागमवगमयति, प्रमाणश्रुतिवदित्युक्तम् । पक्षधर्मतादिलक्षणानां चा क्रमनियमाभावात साध्यसमविरुद्धसव्यभिचारातीतकालप्रकरणसमा हेत्वाभासा इति पाठो नाश्रितः॥
[ हेत्वाभाससंख्याविमर्श:) ननु ! त्रयो एव हेत्वाभासा इति शाक्याः-न-प्रत्यक्षागमबाधि. तस्य च हेतोः पूर्वं प्रदशितत्वात् ॥
नन ! एकस्यैव रूपद्वयवैकल्यात् कथं न षष्ठादयः तत्प्रभेदाः स्युः यथा 'अनित्यः शब्दः चाक्षुषत्वात्' इति । एष हि पक्षे वृत्त्यभावादसिद्ध उच्यताम्, उत सामान्यादेः विपक्षादप्रच्युतः सव्यभिचारः, उत जात्यन्त. रमेव ताभ्यामिति-नैतदेवम्- एकैकरूपापायनिमित्तभेदपंचकप्रतिपादने कृते द्वित्रिरूपापायात न रूपान्तरमवतरति, किन्तु तेषामेव समावेशःस्यात् ।
* श्रुतिः-शब्दः॥ * पक्षसत्त्व-सपक्षसत्त्व-विपक्षासत्त्व अबाधितत्त्व-असत्प्रतिपक्षितत्वक्रमः॥ * बाधसत्प्रतिपक्षी विना त्रयः॥
६ पक्षसत्त्वाद्यकैकवैकल्ये यथा एकैको हेत्वाभासः, तथा द्वयवैकल्ये अन्य, अतिरिक्तः कश्चित् षष्ठो हेत्वाभास इत्येवं त्रयादिवैकल्येऽपि अस्तु ।। .
• दुष्टसंकरेऽपि दोषासंकर इति न्यायात् ॥