SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ 603 एकादशमा हिकम् परपक्ष मेवाक्षिपन्नास्ते । तहि साधनाद्वि'ना पक्षोsपि सोऽस्य नास्त्ये वेति ॥ ^ [ स्थापनापदप्रयोजनम् ] प्रतिपक्षहीनो वितण्डेत्युच्यताम्, कि स्थापनाग्रहणेन ? - न - अभ्युपगममात्रेण तद्भावात् । तमनभ्युपगम्य प्रलपतः कास्तस्य शृणुयात् । औपचारिको वा परमतपराकरणरूप एवास्य पक्षः * । तस्मिन् हि सति स्वपक्षो हि तस्य सिद्धयेदिति । परमताक्षेपप्रवणप्रवृत्तेश्च बलात् द्वितीयक्षवाद्येव वैतण्डिक इति । तदेवं पक्षोऽस्यास्तीति, साधनं तु नास्तीति सम्यक्सूत्रितं 'सं प्रतिपक्षस्थापनाहीनो वितण्डा' इति ॥ इत्युदाहृतमिदं कथात्रयं यत्परस्परविविक्तलक्षणम् । प - ख. स्थूलमप्यनवलोक्य कथ्यते वाद एक इति शाक्यशिष्यकैः ॥ इति वितण्डापरीक्षा [ हेत्वाभासपरीक्षा ] पक्षधर्मत्वादीनि पंच लक्षणानि हेतोरुक्तानि । तेषामेकैकापायात् पंच हेत्वाभासा भवन्तीति तान् दर्शयितुमाह * यथा खण्डनकारस्य, शून्यवादिनो माध्यमिकस्य वा ॥
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy