________________
606
न्यायमञ्जरी [अनैकान्तिकपदार्थः ] आह, भवत्वेवम् ! इदं तु चिन्त्यताम् । 'अनैकान्तिकः' इति किमयं पर्युदासः, प्रसज्यप्रतिषेधो वा? किंचातः ? पर्युदासपक्षे स्वपक्ष. नियतादेकान्तिकादन्यः यः, स एवानकान्तिक इति स एवैको हेत्वाभासः स्यात् । प्रसज्यप्रतिषेधे त्वैकान्तिकाभावस्य निवृत्तिरूपस्य हेत्वाभासता भवेत् , न लक्ष्यत्वेनाभिमतस्य विपक्षवृत्तः हेत्वन्तरस्य प्रमेयत्वादेरितिउच्यते-प्रश्न एवायमनुपपन्नः। संशयानो हिपरं पृच्छति । संशय- . श्चोभयथा दर्शनाद्भवति। न च नामपद संबद्धस्य नमः द्वयी वृत्तिर्दष्टा। 'अश्राद्धभोजी' इत्यादौ हि भुजिना नम संबध्यते, 'श्राद्ध न भुङक्ते' इति ; न तु नाम्ना श्राद्धेनेति ॥
[नामपदसंबद्धनञः पर्युदास एवार्थः] आख्यातेनापि प्रयोज्यमानः क्वचित प्रकरणसामर्थ्या'नुरोधात् प्रत्ययार्थसंबन्धमवधूय धात्वर्थमेव केवलमालिङगन पर्युदासवृत्तिर्भवति —'नेक्षतोद्यन्तमादित्यम्' इति । न तु नाम्ना संबध्यमानः क्वचिदपि पर्युदासवृत्तिमुल्लङध्य प्रसज्यप्रतिषेधमात्र परता मवलम्बमानो दृश्यते । अब्राह्मणादौ सर्वत्र तदन्यावगतिदर्शनात् इति कुतस्त्यः संशयः ।।
[पर्युदासपक्षोक्तदोषपरिहारः] अथवा किमनयाऽवान्तरचिन्तया! यथा पृष्टं कृत एवोत्तरमुच्यते। एकस्मिन्ननित्य पक्षे नित्यप क्षे वा नियतः ऐकान्तिकः एकपक्षवृत्तिरुच्यते। ततोऽन्यः *पक्षद्वयवृत्तिः अनेकान्तिको भवति । एवं न सर्वे हेत्वाभासाः पक्षद्वयवृत्तय इति न संख्याहानिः अतः पर्युदासपक्षे तावन्न दोषः ॥
___* पक्षद्वयं-सपक्षविपक्षौ ॥
1 णा-ख,
न प-च,
सा-ख,
प-ख.