________________
601
- एकादशमाह्निकम्
[ छलादिप्रयोगफलम् ] ननु ! यदि 'परोऽपि छलादीनि जानीयात, तेषु चानुरूपमुत्तरमभिदधीत, कथं जीयेत? प्रत्युत जयत्येव-सत्यम्-तथाप्येकान्तपराजयात् वरं संदेह इति युक्तमेव तत्प्रयोगेण *स्फुटाटोपकरणम् ॥
ननु ! ईदृशि प्रयोजनानि जिगीषतो जनस्य जानपदसदसि भवन्ति । तस्यापि न निपुणमति परिषदि' । मुमुक्षोस्तु दूरापेतैव कथेयमिति कथ. मिह मोक्षशास्त्रे जल्पाद्युपदेशः ? –नैतेदेवम्-मुमुक्षोरपि क्वचित्प्रसङगे तंदुपयोगात्। तथोक्तं ' तत्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे, बीज. प्ररोहसंरक्षणार्थ कण्टकशाखावरणवत्' (न्या-सू-4-5-30) इति ॥
__
[वितण्डादिप्रयोगकालः]
यदि हि क्वचिदाश्रमे सुखमासी'नं अनेकशिष्यगणोपास्यमानं रहस्य. तत्त्वमुपदिशन्तं शान्तमानसमाचार्य अनार्यः कश्चिद्विपश्चिदागत्य दुरधिगतकतिपयाक्षरचयजनितगुरुतरगर्वगद्गदया गिरा 'भोस्तपस्विन् ! किं 'व्याख्यायते ? हं! आन्वीक्षकी ! सरलमतिप्रियेयं विधा । क्व वेदाः! क्व वेदप्रामाण्यम् ! क्वात्मज्ञानम् ? क्वापवर्गः? इत्यादि मन्दं मन्दं विहस्य सहसा दुष्टमेध इव प्रकटिताकाण्डदण्डकाश डम्बर वित्रासिता. श्रममृगवर्गमुद्ग्राहयन् आकुलयति, तदा जगज्जालमिन्द्र जालपण्डितविल. सितमिति जाननप्या'चार्यः' यदि तमुपेक्षते, तिरस्करोति, सद्यः सम्यकसाधनाप्रतिभासेऽपि यदि छलादिभिरेनं न शमयति ; तदा तस्मिन् गते तत उत्थाय शिष्यगणा ब्रयः 'कष्टमस्थाने क्लिष्टाः स्मः ॥
* स्फुटाटोपः-फटाटोपः ॥
आ-ख,
___ 1 पर:-ख, सदसि-ख, सी-ख, 'म-ख. नितम्ब-ख, 'शाभ्यो-ख