________________
600
न्यायमञ्जरी यथोक्तोपपन्नग्रहणेन सर्वातिदेशे वादजल्पयोरविशेष इति शङकमानाः केचन पक्षप्रतिपक्षपरिग्रहमात्रातिदेशमेव व्याचक्षते। इयतस्तु पूर्वसूत्रानुवृत्त्यापि सिद्धेः मन्दफलमेव 'यथोक्तोपपन्न'वचनं भवेदिति समस्तादितिदेश एव वरन् । न च तत्रापि वादजल्पयोः साम्यम, गम्य. मानार्थान'तिदेशात । श्रौत एवार्थः अतिदिश्यते, न गम्यमानः । तत्कृत एव च तयोर्भेदः ॥
तथा च प्रमाणतर्कसाधनोपालम्भ इत्यत्र गम्यमानोऽर्थः अभिप्राय नियमः। स नातिदिश्यते। सिद्धान्ताविरुद्धः पंचावयवोपपन्नः इत्य. त्रापि बुद्धिपूर्वकजात्यादिप्रयोगप्रतिषेधतदुद्धावननियमरूपः गम्यमानोऽर्थः । सोऽपि नातिदिश्यत इति कुतस्तयोरविवेकः। अत एव च बुद्धिपूर्वक प्रयोगानुज्ञानाय छलजातिनिग्रहस्थानसाधनोपालम्भ इत्युक्तम् ॥
___[जल्पे छलादेरभ्यनुज्ञानम् ] भवत्वेवम् ! छलादीनां त्वसत्तरत्वात् कथमिव साधनोपासम्भहेतुत्वम्। परपक्षप्रतिक्षेपद्वारकमिति चेत्-न-असदुत्तरत्वेन प्रति क्षेपे sपि तेषामसामर्थ्यात्। एवमपि च साधनग्रहणमनर्थकमेवेति-सत्य. मेवेदम-किन्तु कस्यांचिदवस्थायां स्वप्रतिपत्तिसाधनोपहिततत्त्वज्ञान. रक्षायै तान्यपि व्याप्रियन्ते। यदा जाननपिपरपक्षशिमानम्, स्वपक्षे द्रढिमानं च क्वचिदवसरे* परप्रयुक्त साधने दूषणं सपदि न पश्यति, स्वपक्षसाधनं च झटिति न स्मरति, तदा छलादिभिरप्युपक्रम्य परमभिभवति, आत्मानं च रक्षतीति ।।
* दौर्भाग्यवशादिति शेषः॥
1 0 अ-ख,
पक्षे-खः
। गि-ख