________________
एकादशमाह्निकम्
599 आशयशुद्धिमुपदर्शयितुम्। 'अत्र वस्तुनि मम प्रथमं तर्कः इत्थं प्रवृत्त आसीत् , ततः प्रमाणमिदं प्रवृत्तम्' इत्येव'माद्यपि तत्र वक्तव्यम् । अत एव चान्यतरपक्षनिर्णयावसान एव भवति वादः। न जल्पवत् अलीकदूषणाडम्बरविरचितपरपरिभवपर्यवसानोऽपीति तथा बुद्धिपूर्वमाभासा. नामप्रयोग इति निर्मत्सरकथात्वमस्योक्तमिति अकलुषाकूतकथनाय प्रमाण तर्कपदम् ॥
[प्रमाणतर्कदलप्रयोजनान्तरम् ] __अपि च साधनोपालम्भव्यतिषङगप्रतिपादनमपि तस्य फलम् । उभावपि परस्परमनुबन्धेन वादिभ्यां परीक्ष्यमाणौ पक्षप्रतिपक्षौ वादता प्रयोजयतः, न तु स्वगुहे शास्त्रे वा विविच्यमानौ। प्रमाणरेव वादे, छला. दिभिरेव जल्पे व्यवहार इति नियमशडकानिरसनमपि तत्पदोपादानप्रयो. जनमुक्तमन्यैरिति कृतमतिविस्तरेण। सर्वथा वादलक्षणं सुस्थम् ॥
. वादं तु निर्णयफलार्थिभिरेव शिष्य.
संब्रह्मचारिगुरुभिः सहवीतरागैः। न ख्यातिलाभरभसप्रतिवर्धमानस्पर्धानुबन्धविधुरात्मभिरारभेत ॥
-इति वादपरीक्षा
[ जल्पपरीक्षा] यथोक्तोपपन्नः छलजातिनिग्रहस्थानसाधनो
पालम्भः जल्पः ॥ १-२-२॥
1 म-ख,
2 ज-ख.