________________
598
न्यायमञ्जरी
तन्मूलावयवाक्षेपात् प्रमाणाभासमूलनिरासे सति सकलहेत्वाभासोद्भावनमपि तत्र सिद्धमिति ||
सिद्धान्ताविरुद्धग्रहणेन ‘सिद्धान्तमभ्युपेत्यानियमात कथाप्रसङगः अपसिद्धान्तः' इत्यपसिद्धान्ताख्यनिग्रहस्था'नाभ्यनुज्ञानमित्येवमष्टौ निग्र. हस्थाना'नि वादे उद्भाव्यन्त इति–तदनुपपन्नम्-न हि त्रीणि वा अष्टौ वा वादे निग्रहस्थानानि चोदनीयानीति चोदनादिकी, राजशासनं वा। वस्तुपरिशुद्धिसाधनं सर्वमेव तत्र प्रयोगार्हम्। अयं तु विशेषः जल्पे कस्यांचिदवस्थायां बुद्धिपूर्वकमपि छलादिप्रयोगः क्रियते। . वादे तु न . "त था तेषां प्रयोगः। भ्रान्त्या तु कथंचित्प्रयुक्तानामवश्यमुद्भावनम् ; . अनुद्भावने वस्तुपरिशुद्धेरभावात् ॥
[स्वमतेन दलप्रयोजनम् ] . . कथं त_दं पदद्वयं-सिद्धान्ताविरुद्धः, पंचावयवोपपन्नं इति । अपसिद्धान्तादिसम्यग्दूषणदिक्प्रदर्शनेन एवंप्रकारवस्तुशुद्धयनुगुणंनिग्रहस्थानजाताभ्यनुज्ञानार्थमेवेत्यभियुक्ताः। अप्रतिभाविक्षेपादयो हि न वादे पराजयहेतवः, क्षणान्तरेणा प्यागत्य' अनुस्मृत्य च साधनमुपालम्भं वा तत्र प्रवदन्न पराजीयते। प्रतिज्ञाहान्यादि तु सम्यक्पराजयकारणमखिलमाभ्यां पदाभ्यामभ्यनुज्ञातमत्रेति ॥
[प्रमाणतर्कदलप्रयोजनम् ] ननु ! इदानी प्रमाणतर्कग्रहणमपार्थकम् , पंचावयवोपपन्नपदेनैव प्रमाणमूलावयवोपदेशात्, वस्तुपरिशुद्धयनुगुणनिग्रहस्थानाभ्यनुज्ञानाच्च किमिव नोक्तम्-न-अभिप्रायनर्मल्यनिवेदनद्वारकवादजल्पविवेकप्रतिपादनार्थत्वात्। स्वप्रतिपत्तिसाधनमपि प्रत्यक्षादि वादे प्रयोक्तुमुचितं,
1 ना-ख,
वृ-ख,
' द्य-ख,
• प्यागत्य-ख,