________________
. एकादशमाह्निकम्
597 संभवति, संभवनाप्रत्ययस्वभावत्वात्। किमुत परप्रत्यायनाङगतेति न तरां तस्य साधनोपालम्भहेतुत्वम् । सत्यमेवम्-इह तु न प्रमाणशब्देन प्रत्यक्षादेर भिधानम् ; अपि तु प्रमाणमूला अवयवाः उच्यन्ते । तैश्च सिद्धथुपालन्धी क्रियते । एवं तर्कस्य तु स्वतः साधनोपालम्भकरणकौशलशून्यात्मनोऽपि प्रमाणानुग्राहकत्वात् पारम्पर्येण तद्धेतोराशयशुद्धिप्रदर्शनार्थमुपादानम् ॥
. [पञ्चावयवोपपनदलप्रयोजनम् ] . यद्येवं प्रमाणपदेनैव तन्मूलावयवप्रतिपादनात पंचावयवोपपन्नग्रहणमतिरिच्यते ॥ .
तत्र के चिदाचक्षे-प्रमाणतर्कसाधनोपालम्भ इति वादलक्षणे, छल जातिनिग्रहस्थानसाधनोपालम्भ इति च जल्पलक्षणे श्रवणात् , वादे सर्वामना छलादिनिषेधप्रसक्तौ कतिपयनिग्रहस्थानोद्भावनाभ्यनुज्ञानार्थं पंचावयवोपपन्नग्रहणम् ॥ ___ अनेन च हीनं अन्यतमेनाप्यवयवेन न्यूनम्, हेतूदाहरणाभ्याम'धिकं-अधिकमिति न्यूनाधिकयोरुद्भावनमनुज्ञायते। सिद्धान्ताविरुद्धग्रहणेनापि-'सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः' इति विरुद्धाख्यहेत्वाभासोद्भावनमनुज्ञातम् – इत्येवं वादे त्रीगि निग्रहस्थाान्युद्भावनी. यानि ॥
[वादे चोदनीयनिग्रहस्थानानि] ____अन्ये वदन्ति–विरुद्ध एव हेत्वाभासो वादे चोद्यते, नानकान्तिकादि रिति। कथमेतत् युज्यते ? 'निग्रहस्थानेभ्यः पृथगुपदिष्टा हेत्वभासा वादे चोदनीया भविष्यन्ति' इति-भाष्यकारवचनात् प्रमाणपदेन च
1 रनुमा-ख,
णा-ख.