SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ 596 भ्यायमञ्जरी अन्तर्मतद्वयबलाबलचिन्तनेन संशय्य निर्णयति नूनमसौ स्वपक्षम् ॥ - इति निर्णयपरीक्षा - [वादपरीक्षा] न्यायपरीक्षाद्वारकवस्तुविचारयोग्याः कथा वादिनां भवन्ति-वादः, जल्पः, वितण्डेति। तत्र वादस्तावदुच्यते प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः ॥१.२-१॥ पक्षप्रतिपक्षौ व्याख्याती। तयोः परिग्रहः-अभ्युपगमनियमः । ए को वक्ति 'नित्यः शब्दः' इति । अपरस्तु 'अनित्यः शब्दः' इत्याह । सोऽयं पक्षप्रतिपक्षपरिग्रहो वादः । एतच्च रूपं कथात्रयेऽपि साधारणमिति विशेषमाह-प्रमाणतर्कसाधनोपालम्भ इति । प्रमाणैः. तर्केण च साधनम्, 'उ'पालम्भश्चास्मिन् क्रियते इति प्रमाणतर्कसाधनोपालम्भः । न त्वीदृशी वितण्डा, तस्याः *प्रतिपक्षसाधनोपन्यासशून्यस्वभावत्वात् ॥ . [कथासु परार्थानुमानमेव प्रमाणम् ] ननु ! प्रत्यक्षादेः प्रमाणस्य परप्रतीत्यनुपायत्वात् न तेन वादें साधनोपालम्भौ शक्यक्रियौ। तर्कस्य तु प्रतीतिसाधनत्वमपि तावत् नं . __* वादिदृष्टया प्रतिपक्ष इत्युच्यते । वैतण्डिकदृष्ट्या तु स्वपक्षः ॥ 1 साधनो-ख, च, घ,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy