________________
595
एकादशमाह्निकम्
[ संशयाभावेऽपि विचारप्रवृत्तिः ] स हि विमृश्यैव भवति, विमर्शपूर्वकत्वात् परीक्षायाः। अनुमानं च संदिग्धे विषये प्रवर्तत इति प्रायेण तद्व्यवहारः ॥
यद्यपि क्वचिदसंदिग्धेऽपि विषये दृष्टं प्रवर्तमानमनुमानमनलाथिता. यामकितोपनतपर्वतनितम्बनिर्गतधूमदर्शनेन कृशानुकल्पमिव ; तथापि वस्तुयोग्यतावशेन संदिग्धविषयमेवानुमानमिच्छन्ति न्यायविदः। प्रकृतश्च निर्णयः पक्षप्रतिपक्षाभ्यामेव निर्णय एवेति न शक्यते नियन्तुम् , अन्यथा न्यायानुपरमादिति। शास्त्रे तु विनापि संशयादस्ति निर्णयः* ॥
यद्यपि च तत्रापि सूत्रकृता सर्वपरीक्षाणां संशयपूर्वकत्वमुपदेशाति. देशाभ्यामभ्यधायि, तथापि नासौ शास्त्रीयो निर्णयः, परीक्षाकार्यत्वात् ॥
[शास्त्रीयनिर्णयेषु विशेषः ] यस्तु शास्त्रत एव क्वचिद्विषयनिर्णयः, स विमर्शवर्जमुत्पद्यते । वादेऽपि विमर्शरहितो भवति निर्णयः। उभौ निश्चितौ वादं कुरुतः, संदिग्धस्य तत्रानधिकारात्। कथं तोष प्रवाद: 'संशयच्छेदो वादस्य फलम्' इति ? प्रथममुभयोरपि निश्चितयोर्वादप्रवृत्तौ अन्तराले बलादापतति युक्तिद्वयोपनिपात'कृ'तः संशय इति वस्तुनिर्णयावसानत्वाद्वादस्य संशयच्छेदफलत्वमाचक्षते ॥
. [निर्णयपरीक्षोपसंहारः] . यद्यप्यनिश्चितमतिः कुरुते न वादं
श्रुत्वा तथापि परकीयनयप्रयोग म्।
* अन्यथा 'श्रोतव्यो मन्तव्यः' इति श्रवणानन्तरमननं न स्यात् ॥
2 वेश-ख.