________________
न्यायमञ्जरी
लक्ष्यमाणसाधनोपालम्भनिष्ठत्वात्तु पक्षप्रतिपक्षशब्दयोः विषयनिर्देशार्थं अर्थपदमित्येके ||
594
[ विमृश्येतिपदप्रयोजनम् ]
'विमृश्य' इति किमर्थम् ? वस्तुस्वरूपकथनार्थमेव । अनुमानकारणको हि निर्णयः इह लक्ष्यत इत्युक्तम् । अनुमानं च संशयविषये प्रवर्तत इति तर्कानन्तरमपि । अनेनैवाशयेन अस्योपादानम् । संशयादनन्तरं तर्कः, तर्कादूर्ध्वं च *निर्णयो दृष्टः प्रवर्तमानः । अतस्स तत्पूर्वक इष्यते ॥
[ सूत्रे नियमत्रयविवक्षा ] .
भवत्वेवम्, इदन्तु चिन्त्यताम् - क्व नियमः, किं विमर्श ? कि पक्षप्रतिपक्षयोः ? कि निर्णये ? इति । त्रयेऽपि च नोपपद्यत इति । न विमृश्यैव निर्णयः, अविमृश्यापि भावात् । न पक्षप्रतिपक्षाभ्यामेव, इन्द्रियादेरपि तदुत्पादात् । न निर्णय एव, तर्कस्यापि क्वचिदनिवृत्तेः - उक्तमत्र, उद्देशसूत्रे तत्त्वज्ञानपदोपादानात् प्रमाणपदेन च तत्फला 'क्षेपा'त् न निर्णयमा 'त्रेणो'द्दिष्टेन किमपि प्रयोजनम् । विशिष्टस्तु निर्णयः लक्ष्य' त्वेन विवक्षितः ॥ -
5
निर्णये तु समुत्पन्नेबुभुत्सा विनिवर्तते । अत एव हि मन्यन्ते तदन्तं न्यायचिन्तनम् ॥
परीक्षाविषयो यो हि निर्णयो न्यायनिर्मितः । नियमत्रयमप्येतत् तस्मिन्न हि 'न' युज्यते ॥
* तर्कात् पूर्वं जातस्तु न क्षोदक्षमो भवेदित्याशयः ॥
1क - ख,
क्षण-ख,
2
उच्य - ख,
० नि-च.
पेक्षणाच.
4 त्रो- ख