________________
एकादशमा कम्
मभिधीयमाने पुनस्तयोविषयो मृग्यः । भवेत् । मुख्यमभिधाय तदितरो लक्ष्यते ॥
[ पक्षप्रतिपक्षयोः निर्णयाङ्गत्वम् ]
भवत्वेवम् ! द्वाभ्यां तु कथं निर्णयः, एकमेव हि साधनं निर्णयाय कल्पते - एवमेतत् - न द्वितीयमपि साधनं निर्णयनिमित्तमाचक्ष्महे, किन्तु तदुपालम्भस धनं च, साधनोपालम्भश्व - साधनोपालम्भौ, ताभ्यां
निर्णयः ॥
लक्षणाप्रयोगे तु सोऽप्यवगतो
एतदुक्तं भवति — 1 स्वपक्षे साधनमधिगच्छन्, परपक्षसाधने च दूषणमुत्प्रेक्षमाणः स्व'पक्षं प्रमाता निर्णयतीति ॥
न खल्वेवं न जाने । किन्तु उपालम्भस्य क इव निर्णयजन्मनि व्यापारः । स हि परपक्षसाधनसे वोच्छिन्द्यादिति - अ' स्त्ये' तत् - तदुच्छेद्वारेणापि तु स्वपक्षसाध' नाभि 'मानमादिष्कुर्वन् कल्पत एव निर्णयायेति युक्तः द्वयोरपि कारणभावः ॥
1
593
[ अर्थपदप्रयोजनम् ]
ननु ! इदानीमर्थग्रहणमनर्थकमिव । न ह्येवं ' विधसाधनाधीनजन्मा निर्णयाभासः संभवति * । साधनोपालम्भलक्षणार्थावपि पक्षप्रतिपक्षशब्दों विषयमतुं न शक्नुत इत्युक्तमेवेति कोऽर्थोऽर्थग्रहणेन ? उच्यते - पक्षप्रतिपक्षयोस्तु द्वयोः अन्यतरार्थेऽवधारणं भवति, नोभयत्र । स एवं च परमार्थतोऽर्थः इतरस्तु भ्रान्तिकल्पित इति प्रदर्शनायार्थपदोपादानम्
॥"
* किन्तु, अर्थवानेव भविष्यति ॥
2 स्त्वे-ख,
स्व-ख,
नमहि - ख
4 दं- ख.
38