SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ 592 न्यायमञ्जरी तदेष मीमांसककल्प्यमानः नोहः प्रमाणव्यतिरेकमेति । प्रमाणसन्देहदशान्तराळवर्ती तु तर्कः कथितोऽत्र शास्त्र । - इति तर्कपरीक्षा - [निर्णयपरीक्षा] तर्कानन्तरं निर्णयो भवति, पठितश्चेति स लक्ष्यतेविमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः ॥१-१-४१ : ___ 'अवधारणं निर्णय इत्युच्यमाने मिथ्याव'धारणमपि तथा स्यादित्यर्थग्रहणम् । इन्द्रियादिजनितमपि तत्त्वावधारणमस्त्येव । न्यायोपरमहेतोस्तु निर्णयस्योद्देशात् स एवानुमानजन्यो लक्षणीय इहेति पक्षप्रतिपक्षा भ्यामित्युक्तम् ॥ [ पक्षप्रतिपक्षशब्दार्थः] एकाधिकरणौ धमौं तुल्यकालौ विरोधिनौ । पृथक्परिग्रहौ पक्षप्रतिपक्षावुदाहृतौ ॥ न तहि ताभ्यां निर्णयः, तयोरन्यतरविषयो हि भवति निर्णयः', ' न तत्करणक एवेति-सत्यम्-इह तु पक्षप्रतिपक्षशब्दाभ्यां तद्विषयौ साधनतदुपालम्भौ लक्ष्यते। तौ च तस्मिन् करणमेव। किमर्थ पुनः लक्षणाऽऽश्रीयते 'साधनोपालम्भाभ्यां' इत्येव कथं न सूत्रितम् ? , एव. 1 अव-ख, ति-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy