________________
एकादशमाह्निकम्
591 इति सूत्रमनुसरन्तः। एतत्तु प्रतन्यमानमतिप्रसङगमावहति । त्रिविधमेव चोहं याज्ञिका अनुमन्यन्त इति ॥
[ मीमांसकोक्तोहनिराकरणम् ] अत्र वदन्ति-सोऽयमूहशब्दः श्रोत्रियैरनुमाने प्रयुक्तः । यथा स्मृतिकारैः तत्र तर्कशब्दः 'यस्तर्केणानुसग्धत्तै' इति। तथाहि-वैकृतं कर्म मित-त्समवेतार्थप्रकाशकमन्त्रप्रयोगनिवर्त्यम्-इति-साध्यो धर्मः, कर्मत्वात-प्राकृतकर्मवत् इति । प्राकृतेषु च कर्मसु तथा तथा व्याप्ति. ग्रहणत् सर्वोऽयमनुमानमार्ग. एव। नखाः प्रोक्षणीयाः, प्रयोगोपयोगि तण्डुलनिवर्तकत्वादिति ॥ ___सामसु तु स्पष्टमेव वचनमस्ति 'रथन्तरमुत्तरयोर्गायति' इति । तदभावेऽपि मन्त्रसंस्कारसमानयोगक्षेमत्वमेव ॥
. . [ मीमांसकोक्तोहः शब्द एव वा] अपि च शब्दपृष्ठस्थितन्यायसहस्रव्युत्पादनात्मके मीमांसाशास् तन्यायलभ्योऽर्थः चोदनार्थ एवेति स्थापितम्। अतश्च यथोकतोहलभ्य. स्यार्थस्य चोदनार्थता मा तिवतिष्टेति सोऽयमूहः शब्द एवान्तर्भावणीयः। प्रमाणान्तरगोचरो* वा धर्मः स्यात् । न्यायविशेषात्मकस्तूहः नानुमानादर्थान्तरं स्यात्। 'अग्नये'-इत्यस्य स्थाने 'सूर्याय' इति पदस्य प्रयोग ऊहस्य फलम् ; नो हः। तस्मान्न याज्ञिकः प्रमाणादर्थान्तरमूह उक्तः ॥ ___इह तु पूर्वोक्तया नीत्या प्रमाणव्यतिरिक्त ऊहः उपपादितः । श्रोत्रि यास्तु तदनभिज्ञतया न्याये न्यायफले च ऊहशब्दमुपचरितवन्त इत्यलं शास्त्रन्तरोद्गारगहनाभिः कथाभिः ॥
* सिद्धान्ते धर्मस्यानुमानगम्यस्वाङ्गीकारात् ॥
__1 निर्व-ख,
द्याश्र-च,
३ हः-ख.