________________
590
न्यायमञ्जरी सर्वात्मना चोत्सृज्यमाने मन्त्र मन्त्रप्रकाशितकर्माननुष्ठानात् न प्रकृतिवत् कृतं भवेदित्यग्निपदोद्धारेण सूर्यपदप्रक्षेपेण मन्त्रः ऊहेनेत्थं प्रयोक्तव्य इति गम्यते 'सूर्याय त्वा जुष्टं निर्वपामि' इति ॥ ___ ननु ! *ऊहप्रवरनामधेयानाममन्त्रत्वादित्थमपि न मन्त्रेण स्मृतं कर्म कृतं स्यात्-नैतत्-'एकदेशविकृतमनन्यवद्भवति' इति न्यायात् ॥
___[सामरूपोहः ] सामविषयस्तु 'गीतयस्सामानि' इति स्थिते क्वचित्कर्मणि 'रथन्तर. मुत्तरयोर्गायति' 'बृहदुत्तरयोर्गायति' इति श्रुतेः सा बृहद्रथन्तरगीति. यस्यामृचि योनिभूतायामुत्थिता, तितोऽन्यस्यामपि प्रयुज्यते। तादृगक्षरापायेऽपि सा गीतिः ऋगन्तराक्षरेण्वपि प्रत्यभिज्ञायते. 'रथन्तरमनेन श्लो'केन गीत म्' इति व्यवहारदर्शनात् ॥ .
[संस्काररूपोहः ] संस्कार : खल्वपि प्राकृतौ 'प्रोक्षिताभ्यामुलखलमुसलाभ्यामवहन्ति' इति संस्कारश्चोदितः क्वचिच्च विकृतौ श्रयते 'नखनिभिन्नश्चरुर्भवति' इति। तत्रोलूखलमुसलयोः प्रकृतौ पुरोडाशापेक्षिततुषकणविप्रमोकपूर्वक. तण्डुलीभावसंपादनद्वारेणोपयोगात् विकृतावपि तत्कार्यापन्नानां नखानां प्रोक्षणाख्यः संस्कारः क्रियत इति । सोऽयं त्रिविध ऊहः॥
[तन्मते ऊहस्य पञ्चविधत्वपक्षः ] केचित्तु पंचविधमूहमाचक्षते । 'धर्मस्यार्थकृतत्वात्,' 'द्रव्यगुणसंस्का. रव्यतिरिक्त क्रमप्रतिषेधे चोदनानुबन्धः समवायात् (जै-मू-9-2-12,40)
-
-
-
-
* ऊहः उक्तः। यागे अध्ययुणा यजमानस्य गोत्रप्रप्रवरनामधेयानि श्रावयिसव्यानि ॥
उक्तत्रयेण सार्क द्रव्योहः, गुणोहः इति द्वयम् ॥
1 क-ख,
रविषय-ख,
३ ति-ख,