________________
एकादशमाह्निकम् ।
589 - तत्र विचार्यते-किमितिकर्तव्यताविरहितयथाश्रुतप्रधानमात्रसंपादनेन तत्र शास्त्रार्थप्रयोगः परिसमाप्यते, उत तदपि सेतिकर्तव्यताकं प्रधानमनुष्ठे यमिति ॥
तत्र अपूर्वप्रयुक्तत्वेन धर्माणां प्रतिकरणं भेदे स्थिते निरङगस्य प्रधानस्याननुष्ठेयत्वात् विध्यन्ताधिकरणसिद्धान्तन्यायेन 'प्राकृत'वत् वैकृतकर्म कर्तव्यमिति सेतिकर्तव्यताकं तदनुष्ठीयते। एवं सामान्यातिदेशे स्थिते सति कस्य वैकृतस्य कर्मणः कुतः प्रकृतेः धर्मा अधिगन्तव्या इति चिन्तायां, द्रयदेवतादिचोदनासारूप्यपर्यालोचनोपनतहृदयसन्निधानप्राकृतकर्मविशेषसंबन्धिन एव तत्र धर्मा भवितुमर्हन्तीति स्थापिते, युगपदुपनिषतदनर्गलचोदकव्यापारीपनीतनिखिलाखडमण्डलविध्यन्तकाण्डाधिगम्यधर्म-प्रबन्धप्राप्तौ सत्यां ते धर्माः कथं प्रयोक्तव्या इति युक्त्या प्रयोगनिरूपणं ऊह उच्यते, येन इत्थं प्रयोक्तव्या इति धर्मा ब्यव. स्थाप्यन्ते ॥
. . . [ मीमांसकमते तत्रैविध्यम् ] .
स च त्रिविध; मन्त्रसामसंस्कारविषयः । मन्त्रविषयस्तावत् यथाऽत्रैव सौर्ये चरौ प्रकृतिवद्भावेन अग्न्नेयात्, 'अग्नये त्वा जुष्टं निर्वपामिल इति निर्वापमन्त्रः प्राप्तः कथं प्रयोक्तव्य इति विचारणायां-उच्चारणमात्रेण मन्त्राणामनुपयोगात् प्रयोगसमवेतद्रव्यदेवतादिप्रकाशनद्वारेण तदुपः योगस्य व्यवस्थितत्वात, इह न प्राकृत एवायं 'अग्नये जुष्टं' इति प्रयु. • ज्यमानो मन्त्रः प्रयोगसमवेतस्यार्थस्याप्रकाशनात असङगतो भवेत् ।
* प्रतिकरणं-प्रत्यनुष्ठानम् ॥ + विनिगमकाभावात्-प्राप्तिः ।।
1 प्रकृति-च,
सं-ख,
' शेष-च,
हावि-खे.