________________
न्यायमञ्जरी
'अविज्ञात
फलनिर्देशः । 'कारणोपपत्तितः' इति कारणनिर्देशः । तत्त्वेऽर्थे' इति विषय निर्देशः । 'तत्त्वज्ञानार्थ:' इति फलनिर्देशः ॥
यथा स्मृतिकाराः
588
अपि च तर्कशब्दं केचित् अनुमाने प्रयुंजते । पठन्ति * -
'आषं धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः' इति ॥
हापि तर्कोऽनुमानमा विज्ञायीत्यूहग्रणम् । ऊहोऽत्र तर्क उच्यते नानुमानम् । तत्त्वज्ञानार्थताऽप्यस्य प्रमाणानुग्राहकत्वेन, न साक्षात् । तथैव चार्थं साधयितुमेष वादे प्रयुज्यते, हृदयशुद्धिप्रकाशनार्थम् ॥
[ सांख्यपक्षनिराकरणम् ]
कपिलस्तु बुद्धिधर्ममूहमाहुः । सः तत्सिद्धान्तप्रसिद्धसत्त्वरजस्तमोरूपप्रकृतिप्रभवभु वनसर्गादिव्यवहारनिराकरणवर्त्मना पूर्वमेव निरस्तः ॥
[ मीमांससंमतोहप्रदर्शनय ]
इह हि
जैमिनीयास्तु ब्रुवते - युक्त्या प्रयोगनिरूपणमूह इति । fifagपदिष्टदृष्टादृष्टस्वभाव सकलेतिकर्तव्यताकलापं कर्म भवति । यथा 'आग्नेयोऽष्टाकपाल:' इति दर्शपूर्णमासकाण्डे 'पठितम्' । क्वचित् पुनः प्रधानकर्ममात्रमुपदिश्यते इतिकर्तव्यता तु काचन नाम्नायते । यथा 'सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकामः' इति ॥
* वस्तुतस्तु तस्मिन् लोके तर्कः ऊह एव, न स्वनुमानम् । तर्कानुगृहीतः आगम: सुदृढं प्रमाणं भवतीति । तर्कः खलु प्रमाणानुग्राहकः ॥
1 उद्भ-च,
2 पठति-च.