SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ एकादशंमा ह्निकम् । 581 [तर्कः न संशयरूपः] ननु ! यदि न निवर्तते, तहि स्पर्धताम्। मा वा स्पधिष्ट । स्थितस्तावत् स्थाणुपक्ष इति सशय एवायमिति-मैवम्-न स्थाणुपक्षः सर्वास्मना निवर्तते, नाप्यास्ते । एवमेवायं त्रिशङकुरिव लम्बमानः *प्रत्या यान्तरनिर्वृत्तये प्रभवतीति 'तथा विध'प्रत्ययानुभवादेव परिकल्प्यते । वाहकेलिप्रदेशदर्शने हि यथा पुरुषविशेषाः स्मरणपथमवतरन्ति, न तथा स्थाणुविशेषाः। उभयविशेषस्मरणजन्मा च संशय इति सोऽयं वाहकेलि प्रदेशविशेषः शिथिलयति स्थाणुपक्षं, न सर्वात्मनोच्छिनत्तीति । तत् 'दर्शनात भवति प्रत्ययान्तरमूहरूपं पुरुषेणानेन भवितव्यम्, इतीत्यल. मतिविस्तरेण ॥ - [भा योक्तोदाहरणविमर्शः ] - यत्तु भाष्यकारेण तर्कोदाहरणमभ्यधायि - जन्मोच्छेददर्शनात् *कृत कतत्कारणप्रत्यय इति-न तद्धृदयङगमम्-तेन क्रमेण निर्णय एवासौ तत्कारणतथात्वं न तर्क इति ॥ अथवा कार्योदाहरणत्वादस्य तत्रापि संशय निर्णयान्तरालवर्ती तर्क . प्रत्ययो द्रष्टव्यः। स उदाहरणं भविष्यति ॥ [ऊहादिपदप्रयोजनम् ] ऊह इति पर्यायाभिधाने किं प्रयोजनम् ? लक्षणप्रतिपादनमेव• तर्कस्य लक्षणम् , यत् ऊहरूपत्वम्। इतरस्तु सूत्रे कारणविशेषा'य * प्रत्ययान्तरं-विलक्षणप्रत्ययम् ॥ + तस्करण-जन्मकारणं कृतकमिति प्रत्ययः। तर्क इतिशेषः। अत्मनः जन्मन:-शरीरसंबन्धस्य कारण यदि नित्यं, तर्हि शरीरसंबन्धोऽपि नित्यः । यद्यनित्यः तह नित्यः कदाचिन्निवर्तेत । अयं विचारः प्रथमसूत्रस्थः॥ 1 तथा-ख, द-ख, कंका-च. ष-च.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy