SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ 586 [ तर्कस्यातिरिक्तत्व निरूपणम् | उच्यते- न खलु स्वमतिपरिकल्पित विकल्पवितानेन प्रत्यात्मवेदनीयाः प्रतीतयोऽपनेतुं शक्याः । तथा हि - ' स्थाणुर्वा, पुरुषो वा' इति प्रतीतिरेका, 'पुरुष एवायं' इत्य' न्या ? अन्या च ' 'पुरुषेणानेन भवितव्यं' इति मध्यवर्तिनी तृतीया संभावनाप्रतीतिः, स्वहृदयसाक्षिकैव ॥ साम्येन हि समुल्लेखः संशये पक्षयोर्द्वयोः । निर्णयेत्वितरः पक्षः स्पृश्यते न मनागपि || तर्कस्त्वेकतरं पक्षं विभात्युत्थापयन्निव । 'नर' संभावना बीजवाजिवाहनदर्शनात् ॥ वाहकेलिप्रदेशविशेषदर्शनं हि पुंसि संभावनामात्रमुपजनयितुमलं न तु शिरः पाण्यादिविशेषदर्शनवत् सर्वात्मना स्थाणुपक्षापसारणेन पुरुष' स्य निर्णयाय प्रभवति । अतोऽयमगृहीतविशेषस्यैक भवति प्रत्ययः, न तु संशयः ; एकतरपक्षानुकूलकारणोपपत्त्यत जायमानत्वात् ॥ [ तर्कस्यानिर्णयरूपत्वम् ] कथं पुनः पाणिपादादिपुरुषविशेषवत् अश्ववाहनदेशविशेषः विशेषकार्यं न कुर्यात् । 'करणे' वा स्थाणुपक्षोत्सारणात् निर्णय एवायमिति - कस्यैष पर्यनुयोगः - यथा हि शिरः पाण्यादिदर्शने सति पुरुष निर्णयो भवति, न तथा तुरगवहनदर्शने सति । अनुयोज्याश्च पदार्थाः एवं'भवत' ' एवं मा भूत' इति । यथा च * देशान्तरे स्पर्धमान एव स्थाणुपक्ष आस्ते, न तथा वाहकेळिभूमौ, अपि तु शिथिलीभवति । संभव-. त्प्रमादत्वाच्च न सर्वात्मना निवर्तते ॥ * देशान्तरे - अरण्यांदौ । निवर्तते - स्थाणुदक्षः ॥ 1 न्या- ख, न्यायमञ्जरी 2 ननु-ख, 8 नि-ख, 4 करे - ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy