________________
585
एकादेशमाह्निकम् ज्ञानार्थं ऊहस्तर्क इति। यथा 'वाह'केलिप्रदेशादौ ऊर्ध्वत्वविशिष्टमि दर्शनात् पुरुषेणानेन भवितव्यमिति प्रत्ययः ।।
[ तत्त्वज्ञानार्थदलप्रयोजनम्] ननु ! 'तत्त्वज्ञानार्थम्' इत्युक्ते सति सामादिविज्ञाततत्त्वतालभ्यत एवेति किमर्थं कण्ठेन पुनरनूद्यते-बाढम-किन्तु क्वचिद्विषये ज्ञाततत्त्वेऽपि पूर्वतर्केणावसृष्टे सति, उत्तरकालं 'तकितो मयाऽयमर्थ' इति स्मर्यमाणतर्कविशेषणतया गृह्यमाणः विशेषणीभूतस्तर्कः तत्त्वज्ञानार्थो* भवतीति तद्युदासाय पुनरविज्ञाततत्त्वग्रहणम् । मार्गशोधनद्वारेण तर्कस्य तत्त्वज्ञानार्थत्वमिह विवक्षितम्। तच्च अविज्ञाततत्त्वेऽर्थे संभवतीति ॥
- [तकस्यातिरिक्तस्वाक्षेपः] ननु ! नैव संशयनिर्णयान्तरालदी तर्कप्रत्ययः कश्चिदस्ति । तथा हि-यदि तावादनवगतविशेषस्य संभवत्य सौ प्रत्ययः, तहि संशय एव भवेत् । अवगतविशेषस्य भवन निर्णयतामेव स्पृशेत्। 'पुरुष एवं' इति एवकारार्था समुन्मेषरहितोऽपि प्रत्ययः नानिर्णयो भवितुमर्हति । तुरगपरिसरणसमुचितदेशदर्शनमपि यदि स्थाणुपक्षं स्थगयितुमलमिति मन्यते, तत करचरणादिनरविशेषदर्शनवत तन्निर्णयकारणमेव स्यात् । अथ तस्यामपि तुरगविहरणभुवि 'निशि नि खनति कश्चन स्थाणमिति शङकसे, यद्येवं स्थाणुपक्षानपायात् पुनः संशय एवं स्यात्-इति न तृतीयः पक्षः समस्तीति-लक्ष्या भावात् कस्येदं लक्षणमिति ।।
* तत्त्वज्ञानदाढ्यार्थतर्कचिन्तनरूपः खलु सः न तर्कः ॥ + तर्कप्रत्ययः-तर्करूपं ज्ञानम् ॥
___1 बाह्य-ख, ७ प्रत्ययः-च,
तत्प्र-ख, क्षणा-ख.
३ यु-ख,
नि-ख,