________________
30
नाम
न्यायमञ्जरी व्यावृत्तमेव भातीति। अहं ब्रुवे-अनुवृत्तमपि प्रतिभातीति । एवं कलहायमानयोरावयोः कः परिच्छेदः? न खलु शपथस्य, 'क्रोशपातस्य वैषविषयः। तस्मात् निर्विकल्पकानन्तरोत्पन्नस्थूलकालकार्यपर्यालोचनया *तद्वयवस्था कर्तव्या ॥
[निर्विकल्पस्य स्वलक्षणविषयत्वासंभवः] तत्र च. भवेद्यदि विशेषकविषयं निर्विकल्पकम् ।
सामान्याध्यवसायोऽयं अकस्मात्कथमुद्भवेत् ॥ शाब्द एष विकल्प इति चेत्-मिवम्
पश्यत्यनुगतं रूपं अविज्ञातेऽपि वाचके।
दाक्षिणात्य इवाकस्मात् पश्यन्नुष्ट्रपरंपराम् ॥ अनवगतशब्दार्थसम्बन्धोऽप्यभिनवानेकपदार्थसन्निधाने तेषामनुगतं च व्यावृत्तं च पश्यत्येव रूपम् ॥
[निर्विकल्पकस्य विशेषमात्रविषयकत्वमनुभवविरुद्धम् ] ' अपि च प्रथमाक्षिसन्निपात एवाङगुलिचतुष्टयमवलोक्यमानं अन्यो न्यगामिना च रूपेणावगम्यते। तत्कथं केवलविशेषावलम्बी चाक्षुष प्रत्ययः ?
[निर्विकल्पकस्य जात्यादिविषयत्वे अनुभव: प्रमाणम् ] अपि च पुराणशाबलेयपिण्डमवलोकयतः कालान्तरे बाहुलेयं पिण्डं पश्यतः पूर्ददृष्टशाबलेयपिण्डविषयं स्मरणमुत्पद्यमानं संवेद्यते। तस्मात्
* तद्वयवस्था-निर्विकल्पकविषयव्यवस्था ॥
+ मैवमित्यादि-अर्थ बुद्ध्वा हि शब्दरचना । यद्यर्थभेद एव पूर्व न गृहीतः, तर्हि शब्दविकल्पस्य को वाऽवसरः। अतश्च विकल्पविषयाणां जात्यादीनामपि निर्विकल्पकविषयत्वमावश्यकम् ॥
1. शपमानस्य-ख, क्रोशमानस्य-क, ' तत्कथं भवेत्-ख, ३. शब्द-ख.