________________
पञ्चममाहिकम्
*विशेषणादिव्यवहारक्लृप्तिः
तुच्छेऽप्यपोहे न न युज्यते नः। अतश्च मा कारि भवद्भिरेषा' जात्याकृतिव्यक्तिपदार्थचिन्ता॥
--- सिद्धान्तः -
[अपोहस्याप्रामाणिकत्वम् ] अत्राभिधीयते-कि जात्यादेर्बाह्यस्य शब्दार्थस्यासत्त्वात अपोहपक्षपातः? उत प्रतीतिबलादेव? इति ॥
प्रतीतिस्तावत् अपोहविषया भवद्भिरेव नाङगीकृतेति किमत्र कलहेन ॥
जातेः प्रत्यक्षसिद्धत्वम् ] नापि जात्यादेरसत्त्वम् , इन्द्रियार्थसन्निकर्षोत्पन्नबाधसन्देहरहितप्रत्य यगम्यत्वात् , स्वलक्षणवत् ॥
आद्यमेव हि विज्ञानं अर्थसंस्पशि चाक्षुषम् । न तदुत्तरभावीति किमिदं राजशासनम् ॥
[जातेः निर्विकल्पकविषयत्वे अविरोधः ] तदेवास्तु प्रमाणं वा, तेनापि त्ववगम्यते ।
व्यावृत्तं वस्तुनो रूपं नानुगामीति का प्रमा? तथाहि-निर्विकल्पक कालस्यातिसूक्ष्मत्वात् किं प्रतिभासते? कि न प्रतिभासते ? इति कथमेष कलिरावयोरुपशाम्यतु ! भवान् ब्रूते
. *सामानाधिकरण्यव्यवहारः ॥
+नाङगीकृतेति-प्रमाणतयेति अध्याहायम् ॥ * कालिः–'कालिस्स्त्री कलिकायां, ना शूराजिकलहे युगे' (मेदिनी)॥
1 रेषु-क,
भवद्भिरेवाङ्गीकृतेति-ख,
निर्विकल्प-ख.