SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ 28 न्यायमञ्जरी तदेवमेव लोकस्य व्यवहारोऽवकल्पते । *"विवेकिनापि वोढव्या लोकयात्रा च लोकवत् ॥ [अपोहवादोपसंहारः] तस्माद्विकल्पप्रतिबिम्बकस्य शब्दार्थतामाहुरपोहनाम्नः। प्रतीतिमार्गस्त्वविविच्यमानः जनस्य जातिभ्रममातनोति ॥ यावांश्च कश्चिनियमप्रकार प्रवर्तते जातिषु वृत्त्यवृत्त्योः । तावानपोहेष्वपि तुल्य एव भवत्यवस्तुत्वकृतस्तु भेदः ।। तुल्येऽपि भेदे, शमने ज्वरादेः काश्चि द्यथैवौषधयः समर्थाः । सामान्यशून्या अपि तद्वदेव . स्युर्व्यक्तयः कार्यविशेष'शक्ताः॥ . * एतत्सर्व जानताऽपि पुरुषेण, लोकवदेव लोकव्यवहारोऽपि निर्वोढव्य, 'सक्ताः कर्मण्यविद्वांसः यथा कुर्वन्ति भारत । कुर्याद्विद्वांस्तथा' (गी .) इतिवत् ॥ +नियमप्रकारः-जातिव्यवस्था, असांकर्यादिकं च ॥ * ज्वरादिशमने काश्चित् सह प्रत्येकमेव वा। दृष्टा यथैवौषधयः भिन्नत्वेऽपि न चापराः' (प्र. वा.)॥ विजातीये वपि हि पदार्थेषु एककार्योपयोगिनी एकशक्तिः वर्तते ॥ _1 विवेकेनापि-क-ख, युक्त :-ख. बिम्बनस्य-ख, 'यथा वौषधय:-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy