________________
पञ्चममाह्निकम् मिष्यते। दृश्याद्विभिन्नस्य 'विकल्प्यस्य शुक्तरिव रजतस्य निर्देष्टुमशक्यत्वात् । अभेदाध्यवसाये 'चोपाया भावात्। 'नाभेदाध्यवसाये दर्शनमुपायः, विकल्पाविषयत्वात् । न विकल्पः, 'दृश्यविषयत्वात् । तस्मात् 'भेदानध्यवसायादेव प्रवृत्तिः ॥
. [विकल्पस्य अर्थप्रापकत्वप्रकारः ] .. प्राप्तिरपि दृश्यस्यैवार्थक्रियाकारिणो वस्तुनः, पारंपर्येण तन्मूलत्वाकार्यप्रबन्धस्य। दृश्या दर्शनं, ततो विकल्पः, 'ततः प्रवृत्तिरिति । अर्थ हि मूलवतिनमुपलभ्य प्रवर्तमानस्तमाप्नोति। *अपवरकनिहितमणिप्रसृतायां कुञ्चिकाविवरनिर्गतायामिव प्रभायां मणिबुध्या प्रवर्तमानः । यत्र तु मूलेऽप्यर्थो नास्ति, तत्र व्यामोहात् प्रवर्तमानः 'विप्रलभ्यत एव', दीपप्रभायामिव तथैव मणिबुद्धया प्रवर्तमानः ॥
. [अर्थप्राप्त्यादीनामाभिमानिकत्वम् ] एवं च बाह्यवस्तुसंस्पर्शशून्येष्वपि विकल्पेषु 'समुल्लिखितेषु 'बाह्योऽर्थो मया प्रतिपन्नः', 'तत्र चाहं प्रवृत्तः', 'स च मया प्राप्तः', इत्यभिमानो भवति लौकिकानाम्। न त्वयमर्थाध्यवसायमूलः। तदुक्तं 'यथाऽध्यवसायमतत्त्वात् , यथा तत्त्वं चानध्यवसायात' इति । 'स्वप्रतिभासेऽनर्थेऽ
''ध्यवसायात् प्रवृत्तिः' इत्यत्रापि ग्रन्थे अर्थाध्यवसायः भेदानध्यवसाय एव व्याख्येयः। एवं दृश्य"विकल्प्या"वो एकीकृत्य प्रवर्तते, प्राप्नोति चार्थमिति ॥
___* प्रथमसम्पटस्य ६२ पुटटिप्पणी दृष्टच्या ॥
1 विकल्पस्य-ख, चोभया-ख, न भेदा-ख, ' दृश्याविषयत्वात्-खै, ' भेदाध्यव-क-घ, ' दृर्शनान्तर-क-घ, 'ततोऽपि-क-घ, : विप्रलभ्यते-ख,
समुल्लसितेषु-ख, 10 ध्यवसायेन-क-घ, 11 विकल्पा-खः