________________
26
न्यायमञ्जरी खल्वेवं 'विवेचयन्ति', न व्यवहारः' इति । सोऽयं नान्तरः, न बाह्यः ; अन्य एव कश्चिदारोपित आकारो व्यावृत्तिच्छायायोगादयोहशब्दर्थ उच्यते -इतीयमसत्ख्यातिवादगी सरणिः ।।
[अपोहस्य ज्ञानकारविशेषत्वपक्षः] अथवा विकल्पप्रतिबिम्बकं ज्ञानाकारमात्रकमेव तदबाह्यमपि विचित्रवासनाभेदोपाहितरूपमेदं बाह्यवदवभासमानं लोकयात्रां बिति । व्यावत्तिच्छायायोगाच्च तदपोह इति व्यवहियते। सेयमात्मख्यातिगर्भा सरणिः ॥
[विकल्पानामवस्तुविषयत्वेऽपि प्रवृत्त्युपपतिः] ननु ! उभयथाऽपि वस्तुविषयत्वाभावे विकल्यानां कथं वस्तुनि *व्यवहारः प्रवर्तन्ते ? * दृष्टेऽपि क्वचिद्वस्तुनि तृगादी प्रवृत्त्यमावात् । अथित्वं तु प्रवृत्तेः कारणम ॥
[अपोहपक्षे प्रवृत्युपपादनम्] ननु ! अथितावत् दर्शनमपि कारणमेव। अथिनोऽप्यपश्यतस्तत्र प्रवृत्त्यभावात् । अपोहपक्षे च प्रवृत्तस्य वस्तुप्राप्तिः कथमिति वक्तव्यम् -उच्यते-प्रवृत्तिस्तावत् दृश्यविकल्प्ययोः 'एकीकरण निबन्धना (प्र-सं. 69)। दृश्यदर्शनानन्तरमुत्पन्ने विकल्पे "विकल्पतया न' प्रतिपद्यते प्रमाता। दर्शनानन्तर्य विप्रलब्धस्तु दृश्यमेव गृहीतं मन्यते। तदभिमानेन च प्रवर्तते। इदं तदेकीकरणमाहुः, दृश्य विकल्पयोर्मे देन वस्तुनो दृश्यात् विकल्पो यन्न गृह्यते' ; न पुनः भिन्नयोरभेदाध्यवसाय एकीकरण
* दृष्टेऽपि–इत्यादिः समाधानग्रन्थः ॥
1 विवेदयन्ति-क-य, व्यावहारा:-ख, • एककारण-ग, विकल्प्य तेन-ख, विप्रलम्भस्तु-ग, ल्पयो मेंदो यन्न (दृश्यते)-ख. .
कथमिति-ख,
विक