________________
पश्चममाह्निकम्
___25 *फलत उपचर्यते। अतश्च 'बाह्य मपोहमाश्रित्य दूषणो पन्यासे 'कण्ठ शोष मनुभवन् अस्थाने क्लिष्टो देवानांपियः॥
[बाह्यस्य विकल्पविषयस्य अवस्तुत्वम् ] अपि च विकल्पभूमिः अर्थः विकल्पान्तरसन्निधापितभावा भावाक्षेपी' नियतरूपो बाह्यसदृशश्च प्रतीयते। न चेदं रूपत्रयमपि बाह्ये वस्तुनि युज्यते। बाह्यस्य हि वस्तुनः स्वरूपेणावगतस्य न विकल्पान्तरोपनीतभावसम्बन्ध उपपद्यते, वैयर्थ्यात्। नाप्यभावसम्बन्धः, विप्रतिषेधात् । 'नियतरूपता च विकल्पविषयस्य 'गौरेव, नाश्वः' इत्येवमवगम्यमाना वस्त्वन्तरव्यवच्छेदमन्तरेण नावकल्पत इति बलात् व्यवच्छेदविषयत्वम्। अन्यथा "नियम परिच्छेदासंभवात् । सन्दिग्धं च वस्तु न गृह्यते ॥ ___ एवं बाह्यवस्तुविषयत्वे च निरस्ते विकल्पानां 'एकस्यार्थस्वभावस्य' इति न्यायेन (पु. 14) पौनरुक्त्यादबाह्यविषयत्वं ख्याय्यम्। अबाह्य चारोपित रूपम्। तच्च बाह्यवदवभासते। न च व्यावृत्तिच्छायमपहाय °बाह्यारोपितयोः सादृश्यमन्यदस्तीति व्यावृत्तिविषया एव विकल्पाः फलतो भवन्ति ।
[विकल्पानां व्यावृत्तिविषयत्वम् ] यद्यपि विधिरूपेण गौरश्व इति तेषां प्रवृत्तिः; तथापि नीतिविदोऽन्यापोहविषयानेव तान् व्यवस्थापयन्ति । यथोक्तं 'व्याख्यातारः
* फलतः-अर्थात् व्यवहारतः॥ + त्रिरूपं-भावरूप, अभावरूपं, नियतरूप च ॥ - अबाह्यविषयत्वं-बाह्याविषयत्वम् ॥ • बाह्यारोपितयोः-बाह्यस्य आरोपितस्य च ॥ 0 प्रमाणवार्तिकस्वोपज्ञवृत्तौ ॥ (न्या-म-प्र-भ)
1 बाह्यमभावात्मक-ख, 'दूषणो-ख, ३ कार्यापोह-क, भावापेक्षी-क, * नियत-घ, "अबाह्यान्तरारोपितं-ख.