________________
न्यायमञ्जरी दर्शनपृष्ठभाविभिः गौरित्यादिविकल्पः *अतत्कार्य परावृत्ता आकारा उल्लिख्यन्ते । न हि गोविकल्परतत्कार्याणामश्वादीनामुल्लेखः, स्वलक्षणं च स्पृश्यते । सामान्यं च वास्तवं नास्ति। तस्मादतत्कार्यपरावृत्तिविषयत्वमेव विकल्पानामवतिष्ठते-इत्येवं युक्त्या तेषामपोहविषयत्वमुच्यते, नि प्रतिपत्तितः॥
[विकल्पनिर्विकल्पवैलक्षण्यम् ] ननु ! अतत्कार्यपरावृत्तमिव सजातीयव्यावृत्तमपि दृश्यस्वरूपम् । तत्र सजातीय विजातीयव्यावृत्तमप्याकारमुल्लिखेयुः। न हि सजातीयविजातीयव्यावृत्ती', स्वलक्षणं चान्यत्। न चैकतराकारोल्लेखननियमन हेतुमुत्पश्यामः ।।
धीमन् ! मैवं मंस्थाः। निश्चयात्मानो निर्विकल्पाः। 'सजातीयविजातीय व्यावृत्ताकारोल्लेखे च सर्वात्मना तन्निश्चयात् विकल्पान्तराणां शब्दान्तराणां चाप्रवृत्तिः स्पात् । तथा च गौरिति शब्दादुत्पद्यमानो विजातीयव्यावृत्ताकारोल्लेख्येव विकल्पः संवेद्यते,* न सजातीयव्यावृत्तोल्लेखो। तुल्यविषयाश्च विकल्पैः शब्दा इत्यन्यापोह विषयास्त' उच्यन्ते॥ ___सोऽयमारोपिताकारो न बहिः, आरोपितत्वादेव । नान्तः, अबोधरूपत्वात्। अतश्चासौ न किंचिदेव। न किंचिदपि भवन् अपोह इति
* अर्थक्रियाकारित्वं हि सत्त्वम् । तञ्च प्रतिवस्तु भिन्नम् ॥ . + प्रतिपत्तितः-स्वरूपप्रतिपत्तित:-विधिमुखप्रतीतितः॥
* न होत्यादि-निर्विकल्पे व्यावृत्तं वस्तु भासते इत्युक्ते; 'गौः' इति निर्विकल्पे, अश्वादिव्यावृत्तिवत्, इतरगोव्यक्तिभ्योऽपि व्यावृत्तिः गृह्यते, तद्व्यक्तिमात्रविषयत्वानिर्विकल्पस्य ।।
• शब्दःखलु सामान्यविषयः, अतस्तेन सजातीयव्यावृत्तिः न बोध्येत ॥
1 परावृत्त आकार उल्लिख्यते-ख, 'नस्पृश्यते-ख, विजातीयव्यावृत्तिः-ख, * सजातीय-क,घ, 'ल्लेखीव-ख, विषया-ख.