________________
पञ्चममाह्निकम्
23 व्यावृत्तं हि वस्तु दर्शनानां विषयः। तच्च स्प्रष्टुमक्षमा विकल्पा इत्युक्तम् (प्र. सं. 240) ॥ अथ तच्छायामवलम्बमाना विकल्पा व्यावृत्तस्या• ग्रहणात् व्यावृत्तिविषया 'उच्यन्ते ॥
- [विकल्पविषयस्य व्यावृत्तेरवस्तुत्वम् ]
ननु ! व्यावृत्तितद्वतोरभेदात् या व्यावृत्तिः, यच्च व्यावृत्तं स्वलक्षणं तदेकमेवेति व्यावृतिग्राहिभिविकल्पोवृत्तमपि गृहीतं स्यादिति *दर्शनतुल्या एव ते भवेयुः -नैतदेवम्-'न विकल्पैावृत्तं वस्तु . गृह्यते। न च पारमाथिको व्यावृत्तिः; अपि तु कश्चिदारोपित आकारः। वास्तवत्वे हि. व्यावृत्तेः, वस्तुसंस्पशिन' एते दोषाः 'प्रादुष्युः। न त्वसौ तथेत्युक्तम् ॥ .
- [निर्विकल्पविषयस्य वस्तुत्वम् ] . अत एव यत् के चन पर्यचूचुदन किल, व्यावृत्तग्रहणपक्षेत्रितयग्रहणं प्राप्नोति यत् व्यावृत्तं, येन च निमित्तेन व्यावृत्तं, यतश्च व्यावृत्तमिति । न च 'त्रितयग्रहणमस्तोत्यतः कथं व्यावृत्तग्रहणमिति–तदप्यपास्तं भवति -यदि हि व्यावृतं गृह्णीम इत्येवमुल्लेखो भवेत् व्यवहर्तृजनस्य, तदैवमसौ पर्यनुयुज्येत, न त्वेवमस्तोत्यचोधमेतत् ॥
[विकल्पानामारोपिताकारविषयत्वम् ] नन्वेवमारोपिताकार' विषया एव'' विकल्पा "उक्ता भवन्ति । व्यावृत्तिविषयत्ववाचोयुक्ति रनन्विते त्युक्तम्-समाहितमेतत् (प्र-सं). . . * दर्शनं निर्विकल्पः। ते–सविकल्पाः ॥ .
+ 'छिन्नं' इत्युक्त, छेदनक्रिया, तत्कर्म, तत्साधनं इति त्रितयमावश्यकम् ॥
* निर्विकल्पेन गृह्यमाणं वस्तु व्यावृत्तस्वरूपं, न तु तत् तदा व्यावृत्तत्वेन गृह्यते। सविकल्पेनैव तु व्यावृत्ति ह्यते ॥
1 इत्युच्यन्ते-ख, व्यावृत्तिः-ख, ' भवेयुः-ख, विकल्पै-क, " स्पर्शिन-क, " एव-ख, ' प्रादुष्यु:-क, येन-ख, 'त्रितय-ख, 10 विषया-ख, 11 युक्ता-ख, 12 रन्विते-क.