________________
न्यायमञ्जरी . अपोहो यदि भावात्मा बहिरभ्युपगम्यते।
ततो भवति भावत्कं वाग्जालं, न त्वसौ तथा ॥ किन्तु खल्वयमान्तरो ज्ञानात्मा सौगतानामपोहः सम्मतः ।।
* तथाऽभ्युपगमे चेयमपोहवाचोयुक्तिः? स्वांशविषयं पदार्थज्ञानाना मित्येतावदेव वक्तुमुचितम् ॥
एतदपि नास्ति ; नायमान्तरः, न बाह्योऽपोहः। किन्तु ज्ञानार्था० . भ्यामन्य एव ।।
[शब्दार्थस्यावास्तवत्वम् ] . ननु यद्विद्यते नान्तः न बहिः परमार्थतः । तन्न विद्यत एवेति कथं शब्दार्थ उच्यते ।। पारमार्थिकशब्दार्थसमर्थनपिपासिताः। :
नेहागताः स्मों येनैवं अनुयुज्येमहि त्वया ॥ यत एव तन्नान्तर्बहिरस्ति, तत एव मिथ्येति काल्पनिकमिति च गीयते। किं पुनस्तत् ? आरोपितं किंचिदाकारमात्रं विकल्पोपरंजकम् ।।
[अपोहस्यावस्तुत्वम् ] ननु ! बाह्यार्थव्यतिरेकेण किमीय आकारः आन्तरस्य ज्ञानस्यों परंजक उच्यते-"दृश्यच्छायवा नुरंजिका "विकल्पानां, न दृश्योऽर्थः ।
___* तौँ त्यादि-ज्ञानस्य कथमपोहपदवाच्यत्वमित्याक्षेपः। ज्ञानविशेष स इति समाधानम् । वस्तुतस्तु उभयविलक्षणोऽयमिति विवरणम् ॥
तन्नेत्यादि-तृतीयप्रकाराभावादिति हेतुः ॥ * शब्दस्य परमार्थवस्तुबोधकरवं नास्त्येव, शाब्बोधस्तु विकल्परूपः । निर्विकल्पमेव हि वस्तुविषयकम् ॥
• किमीयः-किंसम्बन्धी ।
1. यद्य-घ, . रप्युपगम्यते-क.ध, . मित्येतदेव-ख, 4. न तु-ख, ". आन्तरान्तरस्य-ख, . दृश्यतयैवा-ख, . विकल्पनां नेदृशोऽर्थः-ख.