________________
582
न्यायमञ्जरि
प्रतिज्ञायास्तावदागमोऽनुग्राहकः उपेयते, उपदेशस्वभावत्वात् । ' अनित्यः शब्दः' इति 'वक्ता' तु एवंविधे विषये ऋषिवदस्वतन्त्रत्वात् । अनुमानमुपदिशति । प्रतिज्ञावचनं तु तच्छायानुपातित्वात् । शब्दप्रामाण्यसिद्ध्यर्थे वा शास्त्रे तत्प्रतिज्ञायाः शब्दविषयत्वादागमानुगृहीतत्वमुच्यते ॥
हेतुवचनमनुमानेनानुगृह्यते ॥
उदाहरणं तु प्रत्यक्षेण, तन्मूलत्वाद्व्याप्तिपारिच्छेदस्य ॥
'यथा गौः, तथा गवयः' इतिवत् 'यथा घटस्तथा शब्द:' इत्यनया च्छाया उपमानकारणभूत वनेचरादिवचनसदृशत्वात् उपमानं उपनयस्या ग्राहकमभिधीयते ॥
निगमनस्य तु सर्वावयवानामेकत्र नियोजनार्थत्वात् सर्वप्रमाणानुग्राह्यतैव ॥
[ प्रतिज्ञादीनां प्रयोगक्रमः ]
इतरेतरानुषक्त' त्वात्' प्रतिज्ञां विना निराश्रयो हेतुर्भवेदिति सा पूर्व प्रयोक्तव्या 'अनित्यः शब्दः' इति । ततो हेतुं परो जिज्ञासत इति हेतुवचनमुच्चार्यते 'कृतकत्वात् इति । हेतौ श्रुते क्वास्य व्याप्तिरवधृतेति दर्शयितुमुदाहरणमुच्यते 'यत् कृतकं, तदनित्यं दृष्टं - यथा घटः' इति । एवमुक्ते 'ई' दृशो निर्ज्ञातशक्तिरेष हेतुः साध्ये धर्मणि भवेत्, न वेत्य सिद्धताशङामपाकर्तुमुपनयः प्रसज्यते । ततः 'अमुना क्रमेण तवापि साध्यप्रतीति भवतु' इति सर्वावयवानेकत्र साध्येऽर्थे समर्थयितुं निगमनमभिधीयते । अन्यतममवयवमन्तरेण. सकलमिदमनुषक्तार्थवाक्यं स्यादिति पंचावयवमेव यथोपदिष्टक्रमकं वाक्यं प्रयोक्तव्यम् ॥
1
उक्त्वा ख,
2
ता तु-च.
3
था- ख.
4 की - ख.