SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ 581 दशममाह्निकम् [असाधारण्यनिरासकत्वपक्षः, तन्निरासश्च ] ये - तु यथाश्रुतसाध्यनिर्देशात्मकप्रतिज्ञापुनर्वचनसमर्थनलोभा दद्यापि प्रतिज्ञायाः सिद्धिमबुध्यमानाः असाधारणाशङकाव्यवच्छेदाय निगमनवचन मिच्छन्ति–ते न सम्यगभ्ययुः-असाधारणाशङकायाः दृष्टान्तवचनेनैव निरस्तत्वात् । *विशेषस्य हि हेतुत्व'संभावना'यामसाधा रणाशङका स्यात् । 'यत् कृतक, तदनित्यं' इति तु दृष्टान्तवचसा सामान्यस्य हेतुत्वे कथिते कथमसाधारणत्वमाङकयेत ? यदि पुनरुपनयवचनेन साध्ये धमिणि हेतोरुपसंहारात् असाथारणत्वमाशङकयेत, तन्पुनर्दष्टान्तर्धामवृत्तित्वमस्य दर्शयितव्यम् । तस्मिन दशिते पुनः तवृत्तित्वात धर्मिण्यसिद्धत्वमाशङकनीयम्। पुनस्तद्व्यावृत्तये धमिणि हेतोरुपसंहारो विधेय इत्येवमसाधारणा सिद्धायशङकाभ्यां गच्छेदिति न कदाचित् साध्यप्रतीतिर्भवेदिति नासाधारणशङकाव्यवासाय तत्प्रयोगः, किन्तु पूर्वरीत्यैवेति ॥ तस्माद्विवक्षितेऽर्थे यथोदित क्रमनिवेशिनोऽवयवान् । एकत्र संघटयितुं निगमनवचनं प्रयोक्तव्यम् ॥ . [परार्थानुमानपरमफलम् ] त इमे प्रतिज्ञादयो निगमनपर्यन्ताः पंचावयवाः यथासंभवमागमादिप्रमाणानगृहीताः परस्परानुषक्ताश्च स्वार्थ साधयन्ति । तत्र मुख्यया वृत्त्या प्रतिपाद्येनानुमानेनैव सर्वेऽवयवा अनुगृह्यन्ते। प्रपंचाय तु प्रमाणा. न्तरानुग्रह एषामुच्यते ॥ * विशेषस्य--पक्षमात्रवृत्तेः ॥ 1 शङ्का-ख, शङ्का-ख, उक्त्वा -ख. .
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy