________________
580
[ निगमनलक्षणाक्षेप: ]
ननु ! प्रतिज्ञावचनमेव तावत् असाधनाङ्गवचनत्वात् अपार्थकम् । तस्या एव पुनर्वचनं निगमनमधुना सफलं भविष्यतीति केथं कथा ? 'प्रति' ज्ञायाः पुनर्वचनम्' इति च न वाचको ग्रन्थः ; साध्यनिर्देशो हि प्रतिज्ञा सिद्ध निर्देशस्तु निगमनमिति ||
वाचके वा ग्रन्थे, पौनरुक्त्यादेव निगमनस्य वैफल्यम् । स्वप्रतिपत्तौ च परामर्शज्ञानान्तरं साध्यावगतिरेव भवन्ती दृश्यते । सा परस्याप्युपन नयवचनश्रवणसमनन्तरमुपजायत एवेति किं तदुक्त्या प्रयोजनम् ।
[ उक्ताक्षेपपरिहारः ]
उच्यते - प्रतिज्ञायास्तावत् साफल्यं समर्थितमेव । तस्याश्चेदं पुन र्वचनं सिद्धसाध्यभेदे सत्यपि धर्मिधर्मनिर्देशमात्र साम्यादुच्यते । सिद्ध साध्यभेदादेव च न पौनरुक्त्य कृताफल्यम् । स्वप्रतिपत्तये च परामर्शज्ञानानन्तरं साध्यबुद्धिरुत्पन्ना सा परस्मै कथ्यमाना न निष्प्रयोजना भवति ॥
· भ्यायमञ्जरी
'अस्माद्धेतोरिदं साध्यं अहमज्ञासिषं यथा ।
तथा त्वमपि जानीहि मा स्म विघ्नोऽत्र ते भवेत् ॥
एवमुक्ते संशयानस्य संशयः शाभ्यति, विपर्यस्तमतेश्व विपर्ययः । तदर्थश्चायं परार्थानुमानोपन्यासश्रमः । तदिदं - * विपरीत प्रसङ्गप्रतिषेधार्थं निगमनमाहुः ||
* विपरीतप्रसङ्गः - बाधापादनम् ॥
त-ख,
2
द- ख