________________
578
न्यायमञ्जरी
तदभिधीयते । ततः ' तथा चायं धूमः' इति परामर्शज्ञानमुदपादीति तदुपनयवचनेन प्रतिपाद्यते । ततः 'तस्मादत्राग्निः' इत्यनुमेयज्ञानमुपजायते इति निगमनेन तदुच्यते । ततः परप्रतिपत्ति' पर्यवसानात् किमन्य. दुपदिश्यमानमिति । न च दधिथक्षणसदृशं * अतोऽन्यतममपि भवितुम र्हति, अनुमेयप्रतिपत्तावुपा'द'यत्वात् ॥
[ सर्वैरुपनयस्यापरित्याज्यता ]
येषामपि मते परामर्शज्ञानं नाति, तैरप्युपनयवचनमवश्यमेवापरिहार्यम् : अनुमेयप्रतिपत्तये दृष्टान्ते दर्शितशक्तिरेव हेतुः प्रभवति नान्य. थेति । अतो यद्यपि पक्षधर्मवचनेन 'हेतुर्धाम' संबन्धमात्र मुपपादितम् - तथापि अधुना दृष्ठान्ते दर्शितशक्तिधर्मः सः तस्मिन् धर्मिणि तथाविधो हेतुः स्यात्, न वति असिद्धयाशङकाशमनमुपनयवचनमन्तरेण न भवत्येवेत्यवश्यं प्रयोक्तव्यं तदिति । स्वप्रतीत्यनुसरणेन च वाक्यरचनायाः स्थतत्वात् क्रमोऽपि यथोक्त उपयुज्यते ॥
[ अवयवद्वयवादनिरासः ]
अत एव च 'यत् कृतकं, तदनित्यं दृष्टं' इत्यभिधानं अनुपपन्नम्, अनवगते धर्मिणि, तद्वर्तनि च हेतौ प्रथममेव व्याप्तिस्मरणासंभवेन तद्वचनायोगात् । तदिदमवय विविपर्यासवचनं अप्राप्तकालनिग्रहस्थानमुपदेक्ष्यामः ||
अपि च ' यत् कृतके, तदनित्यं दृष्टं कृतकश्र्वशब्द:' इत्येतावदेव प्रयोक्तव्यमिति वदता भवता ' कृतकश्च शब्द:' इतीदमुपनयवचनमनु
* अतः - एषु पञ्चावयशेषु ॥
3 परं प्रति - ख,
2
य-च,
3
हतु - ख.