________________
दंशममाह्निकम्
577 कृतकम, तत्तदनित्यं दृष्टम्, कृतकश्च शब्द इतीयतो वननात् को नाम शब्दानित्यतां नावगच्छेत् । त्वमेवात्र सत्यव्रतधनः प्रमाणम्। डिण्डि'क'रागं* परित्यज्याक्षिणीनिमोल्य चिन्तय तावत्, किमियताऽथं वुद्धयसे न वा। तस्मात् स्वप्रक्रियापक्षपातमपास्य पंचावयवमेवं क्रमकं वाक्यं उपेक्ष्य यथोक्तमेवों वाक्यं प्रयुङक्ष्वेति ॥
[उपनयस्यावश्यकतावर्णनम् ] .. अत्रोच्यते-इदं तावत् भवान् पृष्टो व्याचष्टाम् । किं स्वप्रतिपत्तिमनुसरन्तः परप्रतिपादनाय वाक्यरचनां कुर्मः, उत परहृदयानुवर्थनेनेति। तत्र पराभिप्रायस्य वैचित्र्यात् परोक्षत्वाच्च दुरवगमत्वेन न विद्मः किं विदध्महे ? किं भुव मुत्क्षिपामः ? किमरनिना परं पोडयामः ? उत हस्तसंज्ञया व्यवहरामः ? आहो हेतुमात्रमेव केवलं प्रयुज्महे ? किं वा. त्र्यवयवं वाक्यमभिदध्मः ? उत पंचावयवादपि वाक्यादभ्यधिकमाख्यानकमस्मै (वर्णयमः ?) इत्येवमनव स्थितत्वात् पराभिप्रायस्य स्वप्रति पत्तिमेवानुसरता परः प्रत्यायः॥
[प्रतिज्ञादिक्रमस्य युक्तस्त्रम् ] तत्र स्वप्रतिपत्तौ पर्वतादिधर्मी प्रथमं दृष्ट इति स प्रतिज्ञाय कथ्यते । ततोऽपि धूमादिलिङगमपलब्धमिति हेतुवचनेन तदावेद्यते। ततो यत्र धूमस्तत्राग्निः यथा महानसः इति व्याप्तिस्मरणमभवदिति दृष्टान्तवचसा
* डिण्डिका:-क्षपणकाः। तेषां रागः-स्वरविशेष:- 'एवमपि, तथापि' इत्यनिर्णयप्रदर्शक । नर्मोक्तिरियम् ॥
+ यथोक्तं-उदाहरणोपनयरूपम् ॥
1 म-च, परं प्रति-ख.
प्र-ख,
३ भूप-च-घ,
च्छिन्न-च,