________________
576
न्यायमञ्जरी
तथा च राज्ञः पुरुषः ब्राह्मणस्य कमण्डलुः।
तरोः शाति सर्वत्र विशेषोऽन्तर्व्यवस्थितः ॥ अतश्च 'धर्माय जिज्ञासा-धर्मजिज्ञासा। सा हि *तस्य ज्ञातुमिच्छा. (शा-भा-1-1-1) इतिवत् संबन्धमात्रसमपिकाऽपि सेऽयं षष्ठी विशेषयर्य' बसाना भविष्यतीति सूक्तं साध्यस्योपसंहार इति ॥
[उपनयस्य व्यर्थत्वाक्षेपः ] ननु ! उपनयवचनमनर्थकम् । पक्षहेतुदृष्टान्तवचनैः किं न पर्याप्तम् ? यदर्थमुपनयवचनमुच्चार्यते। यदि धर्मिणि हेतोः सत्त्वसिद्धये तदभिधानम्-तदेष वृथैव श्रमः। पक्षधर्मवचनेनैव 'कृतकत्वात्' इत्य. वमादिना सिद्धत्वात्॥
अथ साध्यदृष्टान्तणिणोः सा'म्या'पादनाय तदुच्चारणं, तदपि न चतुरश्रम्-'उदाहरणसाधर्म्यात्' इत्यनेनैव गतार्थत्वात। , उदाहर. णसाधर्म्यवचनं हि हेतुवचनमेव भवेत् ॥
अथ स्वप्रतिपत्तौ तदर्थदर्शनात् परं प्रति तद्वचन-तत्रापि परामर्शज्ञाने विवदन्ते ॥
अपि च स्वयं दधिभक्षणसमनन्तरं यदि कदाचिदनुमेयमतिरुपजायते, तत् किमपरस्मै तदुपदिश्यताम् ||
[प्रतिज्ञादीनां क्रमेऽप्याक्षेपः।
योऽप्ययं प्रतिज्ञाहेतूदाहरणोपनयनिगमनप्रयोगक्रम आश्रीयते, सोऽपि स्वप्रक्रियानुरागनिर्मित एव, न वस्तुबलप्रवृत्तः। तथा हि-यद्यत्
* 'तस्य' इति षष्ठीमुक्त्वा 'धर्माय' इति कथनादेवं गम्यत इत्यर्थः ।। * साम्यापादनं-सपक्षवदेवायं पक्षोऽपि इाते प्रदर्शनम् ॥
1 ध्या-ख,
अनु-च.