SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ 574 न्यायमञ्जरी नन्वयः। यदमूर्त तन्नित्यमिति वक्तव्ये, यन्नित्यं तदमूर्तमिति विपरीता. न्वय इति ॥ [वैधर्म्यदृष्टान्ताभासाः] वैधर्म्यदृष्टान्ताभासा अपि पंचैव साध्याव्यावृत्तः, साधनान्यावृत्त उभयायावत्त इति वस्तुदोषास्त्रयः। अव्यतिरेकः विपरीतव्यतिरेक इति वचनदोषौ द्वौ । यथा तत्रैव हेतौ-यत्र नित्यत्वं नास्ति, तत्रा मूर्तत्वमपि नास्ति, यथा परमाणुष्विति साध्याव्यावृत्तः। 'यथा बुद्धाविति साधनाव्यावृत्तः । यथाऽऽकाश इत्युभयाव्यावृत्तः। नित्यत्वामूर्तत्वे घटे न विद्यते इत्यव्य. तिरेकः। 'यत्र नित्यत्वं नास्ति, तत्रामूर्तत्वनपि नास्ति' इति वक्तव्ये, 'यत्रामूर्तत्वं नास्ति तत्र नित्यत्वमपि नास्ति' इति विपरीतव्यतिरेक इति ॥ एते च वस्तुवृत्तेन हेतुदोषा एव, तदनुविधायित्वात् । अत एव हेत्वाभासवत् सूत्रकृता नोपदिष्टाः। अस्माभिस्तु शिष्यहिताय प्रदर्शिता एवम् ॥ [उपनयलक्षणम् ] उदाहरणापेक्षः तथेत्युपसंहासे न तथेति वा . साध्यस्यापनयः ॥ १-१-३९ ॥ उदाहरणम् आत्मलाभे अपेक्षत इति-उदाहरणापेक्षः पक्षधर्मोपसं. हारः* उपनयः। द्विविधश्चासौ-तथेति, न तथेति वा, उदाहरणद्वै ___* हेतोः पक्षवृत्तित्वोपसंहार इत्यर्थः ।। ___1 त्र-ख, बु-ख, 'आकाशः-ख, अ-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy