________________
573 देशममाह्निकम् ___योऽप्यविद्यमानविपक्षी हेतुः, सोऽपि सुतरां ततो व्यावृत्तो भवति, तदभावात्तत्रावृत्तेरिति। अतश्च सर्वपदार्थानित्यत्ववादी एवमपि वैधम्यदृष्टान्तं प्रदर्शयन् न वार्यते-यत्र नित्यत्वं नास्ति, तत्र कृतकत्वमपि नास्ति यथाशशविषाणादाविति ॥
ते एते साधर्म्यवैधर्योदाहरणे अन्वव्ययतिरेकवति हेतावुभे अपि संभवन्ती विक्ल्पेन प्रयोक्तव्ये। एकेनैव व्याप्तेः प्रदर्शनात् किमन्येन कृत्यम् ॥
[ उभयविधव्याप्त्योरावश्यकता] केचिन व्याप्तिसौष्ठवप्रदर्शनाय द्वयोरपि प्रयोगमिच्छन्ति । से भवतु, मा वा भूत् । नेदं महद्विमर्दस्थानम् ॥
ननु ! हेतूदाहरणा'धिकमिति निग्रहस्थानमिदमादिष्टम्-नसमानजातीयाभिप्रायं तद्भविष्यति। साधर्म्यदृष्टन्तानेक त्वे वैधर्म्यदृष्टत्तानेकत्वे वा तन्निग्रहस्थानमित्यास्तामेतत् ॥
[सःध्ययं दृष्टान्ताभासाः ] - इत्थं साधयंवैधर्म्यदृष्टान्तस्वरूपे व्युत्पादिते बसात्तल्लक्षणरहितो दृष्टान्ताभासा भवन्ति । तत्र साध्यविकल:, साधनविकलः, उथयविकल इति वस्तुदोषकृतास्त्रयः साधर्म्यदृष्टान्ताभाः । अनन्वयः, विपरीतान्वय इति द्वौ वचनदोष कृतौ। यथा 'नित्यः शब्दः. अमूर्तत्वात्' इत्यत्रं 'बुद्धिवत्' इति साध्यविकलो दृष्टान्तः। 'परमाणुवत्' इति साधनविकलः 'घटवत्' इति उभयविकलः। व्योम्नि नित्यत्वान्मूर्तत्वं विद्यत इन्य
* पूर्व समयकरणवेलायामेव तथैवकरणेतु अयमपि न दोषः ॥
+ णाभ्याम-ख,
त्वे-ख.