________________
572
न्यायमञ्जरी - [साधर्म्यदृष्टान्ताद्वैधय॑दृष्टान्तवैपरीत्यम् ]
यदि तु साधर्म्यदृण्टान्तवत् तथैव व्याप्यव्यापकभावः ख्याप्यतेस्साधनाभावे साध्यं नास्तीति-तदा धूमाभावेनानग्निना व्याप्तेन अग्नि तत्रालब्धनिवेशः धूममेवावलम्बतेति स्यात् । न चैतन्निर्वहति, अधूमेऽपि वह्निदर्शनात् इत्येवं *सपक्षकदेशवृत्तेर्हेतुत्वमपि प्रसिद्ध होरेत, व्याप्तिवैधुर्यादिति ॥
अपि च धुमाभावेनाग्न्यभावे व्याप्ते कथ्यमाने सत्यधुमो नियमितो भवति 'अनग्नि मा हासीत्' इति । अ'ग्निस्त्वनियमित इति स्वात. व्यादधूमवद्धुममपि स्पृशेदिति व्यभिचारात् प्रतिबन्धो विप्लवेत । तदुक्तम्
'यदा तु साध्याभावेन हेत्वभावो विरुद्धयते। 'तदा साध्यं ततो दृष्टं अवतिष्ठेत साधने || एवं नियवितं साध्यं साधने ख्यापितं भवेत्। साधनं तु स्वतन्त्रत्वात् 'साध्याभावेऽपि संभवेत् ॥
[समव्याप्तिकस्थलेऽपि तुल्यो न्यायः ] . , तस्मात यत्रापि समव्याप्तिको साध्यसाधनधर्माविति सपक्षकदेशव. त्तित्वेनाहेतुत्वमाशङकयते, तत्रापि साधनधर्मस्य विपक्षात् ब्यावृत्तिमंभिधित्सता साध्याभावे साधनाभावो दर्शयितव्यः । यत्रानित्यत्वं नास्ति, तत्र कृतकत्वमपि नास्ति, यथाऽऽकाश इति ||
-
* धूमो हि सपकदेशे वह्निमत्ययोगोलके नास्ति ॥ स्वातन्त्र्यं-नियमाभाव एव ॥
1 अन-च,
' सा-ख,
ध्यं पुनः-ख,
“ हेत्व-ख.