________________
दशममाहिक
तस्मात् हेतुधर्मप्रयुक्तः साध्यधर्म: 'यत्र ख्या प्यते, से साधर्म्यदृष्टान्तः। तद्वचनमुदाहरणमिति सिद्धम् ॥
[वैधोदाहरणम् ] . - तद्विपर्ययाहा विपरीतम् ॥ ३-२-३७॥ 'दृष्टान्त उदाहरणं' इति वर्तते । तदिति साध्यसाधर्म्य परामर्शः। तच्च यद्यपि पूर्वसूत्रे लिङगसामान्यं व्याख्यातम्-तथाप्युभयस्य संभवा' दिहानुमेयसामान्यं साध्यसाधम्यं द्रष्टव्यम् । तद्विपर्ययात-साध्याभावात् , तद्विपरीतः-अतद्धर्मभावी-साधनरहितः यो दृष्टान्तः, स वैधHदृष्टान्तः पूर्ववत् वचसः कर्मतामापद्यमानः वैधोदाहरणं भवति । 'विपरीतं' इत्युदाहरणापेक्षया नपुंसकलिङगनिर्देशः ॥
. [वैधय॑दृष्टान्ते विशेषः ] किमर्थं पुनः साध्याभावात् साधनाभावो वैधHदृष्टान्तो वयंते, ने पुनः साधर्म्यदृष्टान्तस्थित्या साधनाभावादेव साध्याभाव इति-उक्तमत्र
व्याप्यव्यापकभावो यः साध्यसाधनधर्मयोः।
स एव वैपरीत्येन मन्तव्यस्तदंभावयोः' इति । - कि कारणम् ? साधनधर्मे हि धूमे साध्यधर्मेणाग्निना व्याप्तेऽन'ग्निः तत्र निवेशमलभमानोऽन्यत्रानवकाशाद धूम एवं निविशते। एवं साध्य. धर्माभावेऽनग्नौ साधनधर्माभावेनाधूमेन व्याप्ते सति धूमस्त त्रालब्धाव. काशः अनन्यगतित्वादग्नावेव निविशत इति ॥
ध्यधर्म-ख,
तथाप्यत्र-ख,
ना-खं
1 य उत्था-ख, तू-ख, 'त्र-ख.