SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ 570 न्यायमञ्जरी दृष्टान्त ए'वा'न्वयख्यापकेन वचनेनोच्यमानः उदाहरणंइत्युक्ते संति तदभिधायकं वचनं उदाहरणं भवत्येव। यद्यत् कृतकं, तत्तदनित्यं दृष्टं-यथा घट इति || [कार्येण कारणानुमानस्यापि संग्रहः ] ननु! एवं यत्र हेतुकृता साधर्म्यवत्ता, यथा-जलधरोन्नमनवृष्टयादौ, तादृश एव दृष्टान्त उपदिष्टो भवेत्-न यत्र साध्यधर्मकृता हेतुसत्ता, यथा धूमानुमान इति—अदर्शनज्ञो देवानांप्रियः-नात्रोत्पत्त्यपेक्षया प्रयोज्यप्रयोजकभावो विवक्षितः, किन्तु ज्ञप्त्यभिप्रायेण। ज्ञप्तौ च धुम एवाग्नेः प्रयोजकतां प्रतिपद्यते। न हि धमाग्न्योः कार्यकारणभावेन गभ्यगमकभावः। किन्तु नित्यसाहचर्येणैव नियमनाम्ना संबन्धेनेत्यसकृदुक्तम् ।। . [ कारक ज्ञापकरूपहेतुद्वैविध्यम् ] धूमः स्वरूपतो नाम जायतां जातवेदसः। , "अग्निस्तु ना क्षिपत्येनं स एव ह्यग्निमाक्षिपेत् ॥ प्रयोजकत्वमग्नेश्च पंचम्या यदि कथ्यते । यत्र यत्राग्निरित्येवं तन्निर्देशः प्रसज्यते ॥ यस्य प्रयोजकत्वं हि चिख्यापयिषितं भवेत् ।' यच्छब्देन च पूर्वत्र स हि निर्देशमर्हति ॥ भवेदेवं च हेतुत्वं *धूमं प्रति विभावसोः । न च तद्युज्यते वक्तुं अनैकान्तिकदोषतः ॥ प्रयोजकत्वमिच्छन्ति तस्मान्नोत्पत्त्यपेक्षया। अपि तु ज्ञप्त्यभिप्रायं हेतोरे वो चितं च तत् ।। * हेतुत्वं अनुमानविधया ॥ 1 का-ख, नग्निस्तमा-ख, ३ दि-च,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy