________________
' देशममाहिका
. [उदाहरणानरूपणम् ] साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणम् ॥ १-१-३६॥
यथा तत्पूर्वकमनुमान' इत्यत्र प्रतिबन्धग्रहणोपायमात्रं प्रतिपादितम्, इह तु प्रतिबन्धस्वरूपमुदाहरणसाधर्म्यमुक्तम् । एवं 'लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्त;, इत्यत्रं वादिप्रतिवादिप्रतिपन्नत्वं द्विवि धस्यापि दृष्टान्तस्य सामान्यलक्षणमुक्तम्। इह तु प्रयोज्यप्रयोजकभाव. व्यवस्थितसाध्यसाधनधर्माधिकरणत्वमेकस्य, द्वितीयस्य च तद्रहितत्वं लक्षगमुपपाद्यते॥
. [उदाहरणसूत्रविवरणग] तत्र 'साध्यसाधात्तद्धर्मभावी' इति साधर्म्यदृष्टान्तस्य लक्षणम् । *वचनाधिकारे' ऽपि अर्थात्मकदृष्टान्तचिन्तनं तदोपयिकत्यात् हेतुवतं कर्तव्यम् ॥ .
साध्यः-धर्मविशिष्टो धर्मो, तेन साधय- समानो धर्मः-लिङगसामान्यं यत् उदाहरणसाधयं पूर्वमुक्तं, तदेव द्विष्ठत्वादुभाभ्यां व्यपदि. श्यते इति इह च साध्यसाधर्म्यपदेनोक्तम्। तस्मात् साध्यसाधात् यः तद्धर्मभावी-तस्य-साध्यस्य धर्मः-नित्यत्वादि; यस्मिन भवति, सः तद्धर्मभावी। पंचम्या प्रयोजकत्वमुच्यते। हेतु धर्मप्रयुक्तो हि साध्यधर्मः यत्रास्ति, सः साधर्म्यदृष्टान्त इत्यर्थः। स एव च वचसः कर्मतां प्रतिपद्यमानः उदाहरणं भवतीत्यर्थव वनवाचिनोः दृष्टान्तोदाहरणशब्दयों. सामानाधिकरण्यमविरुद्धम् ॥
* न्यायावयवनिरूपणपरं हि प्रकरणम् ॥
1 करणे-ख,
साधन -ख,