________________
सापेक्षमस्य भविष्यति"
.
.
668
न्यायमञ्जरी त्वात् इति* सविशेषणः प्रयुज्यते, तदा केवलव्यतिरेकी संपद्यते। देहा. दि यतिरिक्तस्याश्रयस्यात्मनो नित्यपरोक्षत्वेनान्वयानुपलम्भादिति ॥
दृशस्य चान्वयमूलस्य तस्यां दशायों केवलव्यतिरेकितामुपगतस्य हेतु'त्वो'पगमात् न पूर्वोक्तदोषावसरः। न हीदृशा हेतुना सर्वः सर्व साधयितुमुत्सहते। न चासाधारणस्य हेतुत्वं इत्थं स्थिते प्रसज्येत । पं चलक्षणत्वमपि पूर्वाश्रयापेक्षमस्य भविष्यति ॥
__[ केवलध्यतिरेकिणि दोषोद्धारः] यच्च सन्दिग्धव्यतिरेकित्वमाशङिकतं - तदष्यन्वयव्यतिरेकमूले केवलव्यतिरेकिणि निरवकाशम्, कार्यस्याश्रितस्योपलम्भात्, अश्रितत्वव्या. वृत्त्या व्योमादौ च कार्यत्वव्यावृत्तिदर्शनात्। इदानी घटादौं शरीरे वा सविशेषव्यावृत्तिर्दश्यमाना विशिष्टाश्रयव्यावृत्ति कृ तैवावगम्यत इति न सन्दिग्धो व्यतिरेकः । एतच्चात्मसिद्धिप्रसङगे निर्णोतमिति निरपवादः केवलव्यतिरेकी हेतुरस्त्येव लक्ष्य इति तल्लक्षणार्थमुत्तरसूत्रम् । अन्वयव्यतिरेकिहेतुलक्षणार्थ पूर्वसूत्रम्। केवलान्वयी हेतुर्नास्त्येव । सामान्यलक्षणे तु अनुमानलक्षणवत्, साध्यसाधनपदाद्वाऽवगन्तव्यम् ॥
[भाष्यविरोधपरिहारः] - भाष्याक्षराणि तु काममु पेक्षिष्यामहे । अथवा यथा कथंचिद्वा ध्याख्यास्यामः। केवलव्यतिरेकिणं त्वीदृशमात्मादिप्रसाधने परममस्त्रमपेक्षितुं न शक्नुम इति अयथाभाष्यमपि व्याख्यानं श्रेयः ।।
... * इदमेव 'देहा/नाश्रितत्वे सति कार्यत्वात्' इनि नवीनभाषयोच्यते। परि।
शेषानुमानानां सर्वेषामफीयमेव रीतिः ॥
। कानु-ख.
ग-ख,
चं-ख,
कथमप्यु-ख.