________________
567
दशममाह्निकम्
सन्दिग्धव्यतिरेके च साध्यसाधनता कथम् । लक्ष्याभावादतश्चेदं कथ्यते तस्य लक्षणम्॥
[ केवलव्यतिरेक्यभावे सूत्रनिर्वहिः ] तस्मान्न 'साध्यसाधनग्रहणेन हेतुद्वयसामान्यलक्षणमभिधाय, उदा. हरणसाधर्म्यग्रहणेन अन्वयव्यतिरेकिणो लक्षणम्, उदाहरणवैधर्म्यग्रहणेन च केवलव्यतिरेकिणो वर्णनीयम्। अपि तु सूत्रद्वयनै कस्यैवान्वयव्यतिरेकवतो हेतोर्लक्षणं व्याख्येयम्। अन्वयव्यतिरेकयोर्गमकाङगत्वात् एकेनान्वयनिरूपणं, अपरेण च सूत्रेण व्यतिरेकव्युत्पादनम्। अत एव भाष्यकारः किमेतावद्धतुलक्षणम् ? नेत्युच्यते—'तथा वैधात्' इत्येकवाक्यतयैव व्याख्यातवान् । उदाहरणमपि च सूत्रद्वये तुल्यमेव अन्वयव्यतिरेकिहेतोरुक्तवान् 'उत्पत्तिधर्मकत्वात्' इति ॥
.. . [ केवलव्यतिरेकिसाधनम् ]
अत्र वदन्ति-यदि वयं कंचन शुष्कमेव केवलव्यतिरेकिणं हेतुमुप. गच्छेम, तत एवमनुयुज्येमहि । किन्त्वन्वयव्यतिरेकवानेष हेतुः क्वचित साध्यविशेषे विशेषणवशात् केवलब्यतिरेकितामवलम्बत इति ब्रूमः। तद्यथा-इच्छादिगतं कार्यत्वमात्मसिद्धौ। तत्र हि कार्य त्वमानं आश्रितत्वमात्रेण व्याप्तमुपलब्धमन्वयव्यतिरेकयुक्तमेव, घटादेः कार्यस्याश्रितस्य दृष्टत्वात् । यत्र चाश्रितत्वं नास्ति, तत्र कार्यत्वमपि नास्त्येव, व्योमादौ। सोऽयमन्वयव्यतिरेकवानेव हेतुः यदा परिदृश्यमानशरीराद्याश्रयव्यतिरिक्ताश्रयाश्रितत्वे साध्ये 'देहादिषु बाधकोपपत्तौ सत्यां कार्य.
1 सा-ख,
त-ख.
३
त्वं-ख.