________________
566
न्यायेमञ्जरी [ पञ्चम्यन्तपदपाठपक्षः ] ___अर्थात्मकहेतुलक्षणपक्षेऽपि पंचमीपाठः पूर्ववत् संशयपराकरणफलत्वेन वर्णनीयः। वचनात्मकहेतुलक्षणेऽपि तथैव सूत्रं योज्यम्। यथोक्ता वैधात् प्रवृत्तं वचनं साध्यसाधनं हेतुविभक्त्यन्तं प्रयोक्तव्यमिति' ।
. . [ कैवलव्यतिरेकिनिराकरणम् ]
तदेतदाक्षिपन्ति–लक्ष्ये सति लक्षणं वक्तव्यं भवति । केवलव्यति रेकी तु नाम न समस्त्येव हेतुरिति कस्येदं लक्षणमुच्यते। प्रतिबन्धेन हिं हेतोर्गमकत्वमुक्तम् । प्रतिबन्धश्च पंचलक्षणको व्याख्यातः। एकैकलक्षणविरहनिबन्धनाश्च पंचहेत्वाभासा भविष्यन्ति। तत् पक्षधर्मत्वविरहिण *इवासिद्धस्य हेतोरन्वयशून्यस्यापि न हेतुता युक्ता। केवलव्यतिरेकमात्रशरणेन हेतुना साध्यसिद्धौ तथाविधसिद्धिसुभिक्षसंभवात् यत् यस्मै रोचते, स तत्सर्व साधयेत् । असाधारणस्य वा किमिति हेतुत्वं व्यति रेकवतोऽपि नेष्यते ॥
[ केवलव्यतिरेकव्याप्तेरसाधकत्वम् ] . अपि च
अन्वयस्यापरिच्छेदात् व्यतिरेकेऽपि संशयः ।
साध्याभावकृता तस्मात् व्यावृत्तिरुत वाऽन्यथा ॥ अन्वये हि क्वचिद्गृहीतेऽन्यत्र हेतुव्यावृत्तिरवगम्यमाना साध्यव्या वृत्तिकृतैवेति अवधार्यते, नेतरथा। इत्थमेव च सन्दिग्धव्यतिरेका व्यावर्तते, नान्यथेति ।
* असिद्धस्य हेतोरिवेत्यन्वयः॥
+ घटः नित्यः घटत्वात्, यन्नैवं तन्नैवम्, यथा पट इत्यपि प्रयोक्तुं शक्यः स्वात् ॥
त्यर्थः-ख. 2 सं-ख: