________________
565 दशममाह्निकम्
[अन्वयव्यतिरेकिवलक्षण्यं केवलव्यतिरेकिणः ] ननु ! यधर्म्यशब्दः केवलान्वयिनमेव हेतुं अव्यतिरेक व्यवच्छेत्तुमलम् , तस्य वंधम्यंशून्यत्वात् । अन्वयव्यतिरेकिणस्तु हेतोः उदाहरणसाधर्म्यवत् तद्वैधर्म्यस्यापि भावात् कथमनेन व्यावर्तनम् ? उच्यते
वैध→शब्दोपादानात् केवलान्वयिनो यथा । निवृत्तिर्गम्यते तद्वत् अन्वयव्यतिरेकिणः ॥ साध्यसाधनशब्दो हि प्रतिबन्धोपलक्षणः । व्याख्यातः प्रतिबन्धश्च व्यतिरेकान्वयात्मकः ॥ वैधय॑साधनेऽप्यस्मिन स एव यदि वय॑ते । पूर्वत्रकथनाद्व्यर्थं वैधर्म्यग्रहणं भवेत् ॥ केवलव्यतिरेकाख्यप्रतिबन्धाभिधित्सया। वैधर्म्यवचनं तस्मात् सफलं व्यवतिष्ठते ॥ • अध्याहृतवकारं वा तद्व्युदासाय पठ्यताम् । विशेषविधिरूपेण व्याख्यानं वा विधीयताम् ॥ केवलान्वयिहेतुश्व न कश्चिदुपलभ्यते। तेन पूर्वोक्त एवास्य व्यवच्छेद्यो भविष्यति ॥
[ पूर्वसूत्रेऽवधारणाभावः ] ननु ! एवं तहिं अनेनैव न्यायेन पूर्वसूत्रं केवलात्वयिलक्षणार्थ स्यात् यथेह वैधयंग्रहणं साधर्म्यव्यवच्छेदकम्, एवं तत्र साधर्म्यग्रहणं वैधर्म्यव्यवच्छेदाय स्यादिति-उक्तमत्र-न केवलान्वयी नाम हेतुः संभवतीत्यलक्षणीय एवासौ। तदेवमन्वयव्यतिरेकवतो हेतोः लक्षणाय पूर्वसूत्रम्। इदं तु केवलल्यतिरेकिलक्षणायेति स्थितम् ॥
1 स्या-ख.