________________
564
न्यायमञ्जरी यद्यपि च ज्ञानस्याप्युदाहरणसाधात् कमभूतात् , करणात्मकाद्वा भवत्यभिनिवृत्तिः, तथापि वाक्यावयवकरणसामर्थ्यात् वचनमवसीयते ॥
यदि वाक्यावयवकरणमिदम् , किमर्थ तयर्थव्युत्पादनम् ?-उक्त मत्र, तदोपयिकत्वादिति ||
साध्यसाधनग्रहणं वचनलक्षणे किमर्थम्* ? हेत्वाभासवचननिरः . सनम् अर्थात्मकहेतुनिरसनादेव हि सिद्धम् -न हेत्वाभासवचनव्यवच्छे. दार्थं तत् । किन्तु हेतुवचनविशेषप्रतिपत्त्यर्थम्। न स्वरूपमात्रनिर्देशक वचनम्-'कृतक त्वम्' इत्येवमादि प्रयोक्तव्यम्; अपि तु हेतुविभः क्त्यन्तं 'कृतकत्वात्' इति, 'कृतकत्वेन' इति. कृतकोऽयमस्मात' इति बाऽभिधातव्यम्। एवं हि तत् साध्यसाधनं भवतीति ॥
तथा वैधात् ॥ १-१:३५॥ उदाहरणग्रहणमनुवर्तते, साध्यसाधनमिति च । एतच्च तथाशब्दों पादानसामर्थ्याद्गम्यते-उदाहरण बैधात् साध्यसाधनं हेतुः । अत्रा. प्यर्थात्मकहेतूपूर्वकन्वात् तद्वचनस्यार्थात्मक एव हेतुः प्रथमं 'प्रयुज्यत इति तल्लक्षणाय पूर्ववत् पंचमीपाठशून्यमेव सूत्रं वर्णयन्ति। 'वैधयं हेतुः' इत्युच्यमाने पक्षवैधर्म्यस्यापि विपक्षवृत्तः अशेषाश्वव्यक्तिपक्षी करणे-तुरगा इमे, विषाणित्वात्-इत्येवमादेहेतुत्वं स्यात् इति उदाहरणग्रहणम् ॥
तथाप्यसाधारणादेः उदाहरणवैधय॑स्य हेतुता प्रसज्यत इति पूर्ववत् साध्यसाधनग्रहणं प्रतिबन्धसूचकं सकलहेत्वाभासव्यवच्छेदकं योजनीयम् ।।
तस्मादेव सकलहेत्वाभासव्यवच्छेदसिद्धेः उदाहरणवैधर्म्यग्रहणं समान जातीयान्वयव्यतिरेकिहेतुव्यवच्छे दाय" व्याख्येयम् ।।
* अर्थः खलु साधनम्, न वचनम् ॥ _1 दकं पक्षधर्म-ख, त्वात्-ख, च, घ, 'सा-ख, * लक्ष्य-ख, 'दसिद्धये-ख.