________________
दशममाहिकम्
563 संशयस्य विशे'षा ग्रहणकारणकत्वात्। इह च उदाहरणसाधयंपदोपात्तं लिङगसामान्यमेव विशेषो गृह्यत इति कुतः संशयः ॥
[हेतोः पञ्चलक्षणकत्वम् ] साध्यसाधनपदमपि न पर्यायमात्रम् , अपि तु पंचलक्षणकप्रतिबन्धसूचनेन हेतोः हेतुत्वसमर्थनार्थमेव । कस्मात् हेतुर्हेतुर्भवति, साध्यसाधनत्वात् , गमकत्वादित्यर्थः। साध्यसाधनता चास्य पंचलक्षणकात् प्रतिबन्धाद्विना न निर्वहतीति असौ साध्यसाधनपदेन लक्ष्यते। सोऽपि च प्रयोज्यप्रयोजकमावगर्भः साधनताङगतामेतीति तथाविध एव सूच्यते ॥ __ *अत एव चाप्रयोजक एवैकः परमार्थतो हेत्वाभास इति वक्ष्यते ॥
तदिदमीदृशं साध्यसाधनत्वं हेतोः कुतो भवतीति–'उदाहरणसाधात्' इति संशयं व्यवच्छिन्दन्त्या पंचम्या कथ्यते ॥
[दिङ्नागोक्तदूषणोद्धारः] अतश्च यदुच्यते परैः. 'साधयं यदि हेतुः स्यात् न वाक्यांशो न पंचमी'
इति-तदिदमनुपपन्नम्-पंचम्या अर्थात्मकत्वे हेतावनुपयोगात् । तत्रापि वा तस्यास्समर्थितत्वात् । वाक्यांशे लक्षणान्तरकरणात् । तच्चेदमिदानीमुच्यते उदाहरणसाधात् साध्यसाधनं हेतुः। यथोक्तादुदाहरणसाधात् विवक्षादिक्रमेण यद्वचनं प्रवर्तते, स हेतुः ॥
* साधकस्यैव हेतुस्वात्, असाधको हेत्वाभास इति स्पष्टम् ॥ + साधर्म्यस्य हेतुस्वे, तस्य वस्तुत्वेन, अवयववाक्यार्थत्वं न स्यात् ॥
1 ष-ख,
. व सूच्यते-च,
' य-ख.