________________
562
न्यायमञ्जरी
[ हेतुसामान्यलक्षणम् ] ननु! यदि द्विविधो हेतुरिष्यते, तहि सामान्यलक्षणमादौ वक्तव्यम् ततो विशेषलक्षणमिति-उच्यते-साध्यसाधनग्रहणमेव प्रतिबन्धसूचक सामान्यलक्षणं भविष्यति । उदाहरणसाधर्म्यग्रहणं तु अन्वयव्यतिरेकिणों लक्षणम्। उत्तरसूत्रं च केवलव्यतिरेकिणः। केवलान्वयी हेतुर्नास्त्ये. बेत्येवं पंचमीमुपेक्ष्यार्थात्मकहेतुलक्षणमाचख्युः ||
[प्रसिद्धसौत्रपाठनिर्वाहः ] अपि वा भवतु तत्रापि संशयव्यवच्छेदफलः पंचमीपाठः। कश्चिः देवमभिदधीत 'साध्यसाधनम्' इति पर्यायपठनमात्रमेतत् , न हेतु. लक्षणम्। अपि च यत्रैव वृष्टान्तामणि हेतुधर्मप्रयुक्ततया साध्यधमोऽ. वधारितः, तत्रैव पुनः असावुपलभ्यमानः तमुपस्थापयतु। धर्म्यन्तरे तु तदुपलम्भात् भवतु संशयः, किं तत् साध्याविनाभूतमिह हेतोस्सत्त्वं, उतान्यथेति। तस्येदमुत्तरमुच्यते 'उदाहरणसाधात्' इति ॥
[पञ्चम्यर्थवर्णनम् ] अयमर्थः-देशकालव्यक्तिविशेषाणां व्यभिचारात न तेषु प्रतिबन्धाः बधारणम् , अपि तु सामान्यधर्मयोरेव ॥
व्यक्तिभेदाश्रयत्वे हि नव व्याप्तिग्रहो भवेत् ।
दृष्टान्तेऽप्यभ्यनुज्ञे बं भवता दीयते कथम् ॥ तदभ्यनुज्ञानात्तु सामान्येन व्यप्तिग्रहणमङगीकृतमेव भवति । तस्मिश्च सति उदाहरणसाधात् साध्यसाधनमेव भवति, न संशयः
* प्रातिस्विकव्यक्तिषु व्यप्तिग्रहासंभवात् ॥
1 अ-ख,
ब-च.