________________
दशममाहिकम्
561 दिष्टयोश्च उदाहरणसाधर्म्यसंभवात हेतत्वं भवेदिति तदव्यवच्छेदाय साध्य साधनग्रहणम्। साध्यदृष्टान्तमिणोश्च समानो धर्म साध्योऽप्यनित्यत्वादिः भवत्येवेति तस्यापि हेतुता मा प्रसाङक्षीदिति साध्यसाधनग्रहणम् । लिङगसामान्यलाभार्थं साध्यसाधनं यदुदाहरणसाधयं स हेतुरिति ॥
साध्यसाधन शब्देन च प्रतिबन्धो लक्ष्यते । स च सव्यभिचारादिष नास्तीति न ते हेतवः। प्रतिबन्धश्च पंच लक्षणक इत्येककलक्षणा'पाय'कृतहेत्वाभासपंचकनिर्देशादेव सूत्रितवानाचार्यः॥
. [उदाहरणसाधर्म्यदलप्रयोजनम् ] ननु! एवं तर्हि साध्यसाधनग्रहणमेव हेतुलक्षणमस्तु । तद्धि सकलहेत्वाभासव्युदाससमर्थमिति किमुदाहरणसाधर्म्यग्रहणेन-न-समानजातीयव्यवच्छेदार्थत्वात् । अहेतवो हि विजातीयाः। तद्व्यवच्छेदः साध्यसाधनग्रहणात् । समानजातीयस्य केवलव्यतिरेकिणः व्यवच्छेदाय उदाहरणसाधर्म्यग्रहणमिति ॥
____ [केवलान्वयिहेतुविमर्शः] तत्कि केवलान्वयी हेतुरिति लक्ष्यत्वेन विवक्षितः-न-तथाविधस्य हेतोरभावात् । अन्वयव्यतिरेक'वानेव लक्ष्यः। तत्रोदाहरणसाधर्म्य वैधभ्यंसंभवे तु सति साधर्म्यमप्यस्त्येवेति । "न सावधारणं वा* विशेष. विधिरूपेणैवेदसुदाहरणसाधर्म्यग्रहणं केवलान्वयिलक्षणं वर्णनीयमिति ||
* एतेन केवलान्वयिनोऽपि क्रोडीकरणम् ॥
भाव-ख,
दाय-च,.
___1 पदे-ख, लक्ष्यम-ख,
क्ष-ख, ना-च.
36